Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 155
________________ गणककुमुदकौमुदीटीकासमेतम् । ( १५१ ) वत् । अथ चक्राय इति क्षेपकरहितयोर्मध्यमार्कतमसोर्मध्यसूर्यरहितयोर्मध्यमार्कतमसोर्मध्यसूर्यपातयोर्भगणायो योगो द्विघ्नः द्विगुणीकृतः द्वियुक्तः कार्यः सप्तभिर्भाज्यः शेषं तेन गता वर्तमानस्य राश्याद्यं भुक्तं ब्रह्मादिकः पर्वेशः ब्रह्मशशीन्द्रकुबेरवरुणाभियमाश्च पर्वेशा इति यथा चन्द्रग्रहणे क्षेपरहितो भगणाद्यो रविः ४३७।६।०।५९।३८ पातः २३।६ १४ । ३८।२५ अनयोर्योगः ४६१।० | १५ |३८|३ द्विगुणः ९२२।०।३१।१६।६ द्वियुक् ९२४ सप्त ७ भक्तं शेषम् • ब्रह्मतो गणनया सप्त गताः ब्रह्मा पर्वेशः सूर्यग्रहणे भगणादिरविः ४१७ । ४ । १।२१।१३ पातः २२ ५।९।२४।१८ अनयोर्योगः ४३९ । ९ । १० ।४५।३१ द्विगुणः ८७९/६ । २१।३१।२ द्वियुक् ८८१।०।४३।२। ४ सप्त ७ भक्ते शेषम् ६ पर्वेशो यमो ज्ञेयः ॥ ३ ॥ अथ ग्रन्थकृत्स्वनाम पूर्वकवर्णनमाहआसीत्सज्जनधानि गेहविवरे शाण्डिल्यगोत्रो द्विजःश्रौतस्मार्तविचारसारचतुरः सौजन्यरत्नाकरः ज्योतिर्वित्तिलको महेश्वर इति ख्यातः क्षितौ स्वैर्गुगैस्तत्सूनुःकरणं कुतूहलमिदं चक्रे कविर्भास्करः॥४॥ इतीह. भास्करोदिते ग्रहागमे कुतूहले । विदग्ध - बुद्धिवल्लभे रवीन्दुपर्वसम्भवः ॥ १० ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160