Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 135
________________ गणककुमुदकौमुदीटीकासमेतम् । (१३१) कलास्ता रविचन्द्रयो क्तियोगेन भाज्या लब्धं दिनादिकं ग्राह्यम् ऊनासु कलासु भोग्यं दिनादिकं ज्ञेयमधिकासु गतं दिनादिकं ज्ञेयम् ॥ १ ॥ अथ सपातस्य गतैष्यज्ञानं सार्द्धन्द्रवज्रयाहतात्कालिकौ तौ च तमश्च कृत्वा प्राग्वत्प्रसाध्यो विशिखः कलादिः॥२॥ ओजे पदे युग्मपदे विधुश्चेदेकान्यगोलश्च सपातचन्द्रात् । ज्ञेयस्तदानीं खलु यातपातो गम्योऽन्यथात्वेन ततोऽपि कालात् ॥३॥ तात्कालिकाविति । तैः पूर्वागतैरेष्यगतदिनादिभिस्तौ चन्द्राकौं तमश्च पा च यातैष्यनाडीगुणितेत्यादिना तात्कालिकान् कृत्वा प्राग्वत् खण्डकेन्यः कलादिविशिखः शरः साध्यः । अथ गतगम्यलक्षणं चेयद्योजपदे सायनो विधुः स्थित्वा सपातचन्द्रादेकगोले भवति तथा युग्मपदे स्थित्वा सपातचन्द्रादन्यगोले भवति तदा प्रागागतात्कालायस्मिन् काले द्वादश षदाराशयो जातास्तस्मादित्यर्थः वक्ष्यमाणकालेन गतपातो ज्ञेयः; अन्यथा तु चन्द्रो विषमपदे स्थित्वा सपातचन्द्रादन्यगोले तथा युग्मपदे स्थित्वैकगोले तदा पूर्वागतकालादेवैष्यः पातो ज्ञेयः। सायनांशो रवि :७।१।। ६ सपातचन्द्रः ५। ० । १७ । २१ अनयोर्योगः १२ । १। १७ । २७ अथ द्वादशराशितोऽधिकस्तेनाधिकमंशादि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160