Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas
View full book text
________________
(१३४) करणकुतूहलम् । वा व्यतीते । पातेऽथ गम्ये तिथितश्च्युतास्ते द्विधा द्विधा भोग्यदलादिकानि ॥५॥ द्वित्रीणि विन्यस्य पृथग्दलानि गम्यानि गम्येऽथ गते गतानि। एकस्थमेवास्य तु भोग्यखण्डं यस्याल्पकाश्चायलवा भवन्ति ॥६॥ विश्वांशकेनापमभोग्यकस्य भोग्यादितः क्रान्तिदलानि तानि । संस्कृत्य पूर्व शरखण्डकैश्च स्युः संस्कृतानि क्रमशः स्फुटानि ॥७॥ गते पाते उभयत्र ये शेषभागास्ते चापायाश्चापांशका ज्ञेयाः । अथ गम्ये पाते पूर्वागताः शेषांशाः पञ्चदशायः १५ शुद्धाः शेषं चापांशसंज्ञका उभयत्र ज्ञेयम् । एवं कान्तेः शरस्य च चापांशान् विधायैकान्ते स्थापयेद्यथात्र गतपातत्वाच्छेषांशका एव चापांशा एवं चापांशाः कान्तेः १४।५।२१ शरस्य च १३ । ५३ । ३० ततः कान्तेः शरस्य च भोग्यखण्डमादीकत्य वित्रीणि खण्डानि द्विधा पृथग्विन्यसेत्, यदि पातं गतलक्षणं भवति तदा गतखण्डानि एष्यलक्षणे पाते एष्यलक्षणानि खण्डानि विन्यसेत्, शरक्रान्त्योर्मध्ये यस्य चापांशाः स्वल्पास्तस्य भोग्यखण्डमेकस्थमेव स्थाप्यमन्यानि द्विधा २ यथागतानि तेषां स्थापितखण्डानां धनर्णसंज्ञा पूर्व कतैव स्वल्पशरे खण्डकं द्वयं महच्छरे त्रय एव मध्यमा भवन्ति । अनया रीत्या संस्थाप्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160