Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 143
________________ गणककुमुदकौमुदीटीकासमेतम् । ( १३९) खण्डं शरयुतं विभक्तं गत्या विधोः षष्टिगुणमित्यनेन प्रकारण गतैष्यसाधनं कार्य गतैष्यतालक्षणं प्राग्वत् ॥ १३ ॥ अथ सर्वस्खण्डकेषु शुद्धेषुपातसम्भवे स्थितिसाधनमाई तथा शरावशेषकं खनागवेदतश्च्युतम् । नवनमन्त्यखण्डहृद्दलीकृतं स्थितिस्तदा ॥ १४ ॥ येन शरेण पातसम्भवस्तच्छेषं खनागवेदतः ४८० च्युतं संशोध्य यच्छेषं तन्नवघ्नं नव ९ गुणं कार्यमन्त्यखण्डकेन भाज्यमातस्य फलस्य घटयादिकस्याई स्थितिः स्याद्यथा मध्याह्नात्पूर्वतः परतश्च भवति पातमध्यात्पूर्व स्पर्शः पातमध्यात्पश्चान्मोक्षः ॥ १४ ॥ अथ प्रकारान्तरेण क्रान्तिसाम्ये स्थितिलक्षणमुष्णिहा छन्दसाह तल्लक्षणमलंकारचूडामणिविषयिके तथा वृंदचूडामणी उष्णिहा छन्दःसंमृतौ स्याद्रजो गुरुरिति विवेकाद्वाच्यम् । मानयोगखण्डतो यावदल्पमन्तरम् । क्रान्तिसाम्यमेव तत्तावदेव हि स्थितिः॥१५॥ इतीह भास्करोदिते ग्रहागमे कुतूहले। विदग्धबुद्धिवल्लभे सकृच्च पातसाधनम् ॥९॥ चन्द्रसूर्ययोर्मानयोगाद्विम्बैक्याायावत् कान्त्यन्तरं स्वल्पं भवति तावत् क्रान्तिसाम्यमेव ज्ञेयम् । तावदेव तस्य पातस्य स्थितिरस्तीति ज्ञेया, अडुलायविवेकाई Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160