________________
(५६)
करणकुतूहलम् ।
रविगतिफलं रविहरेण भाज्यं लब्धेन रविचन्द्रविगतिरपि संस्कार्या, चन्द्रगतिफलं चन्द्रहरेण भाज्यं लब्धं प्राक्कपालस्थे चन्द्रे गतिफले ऋण भुक्तौ धनम्, अन्यथा ऋणमित्यर्थः । एतन्नतकर्म सूक्ष्ममिच्छतान्यत्रापि तिथ्यानयने सूर्याचन्द्रमसोः पृथङ्गतं विधाय कर्तव्यम्, उक्तं च इदं ग्रहाणां नतकर्म युक्तं स्वल्पान्तरत्वान्न कृतं तदाद्यैरिति ग्रहणदृग्गणितयोरेकत्वप्रयोजनायावश्यं कर्तव्यमिति भावः । इति नतं क्रमज्यानतक्रमं सिद्धान्ते प्रोक्तम्, तदेवानेन प्रकारेण मयोक्तम्, खशरभानुभुव इत्यङ्कानयनं क्रमज्ययोत्पन्नमित्यर्थः । ब्रह्मगुप्ताचार्यस्य मते तदेव सम्मतम्, यत्कैश्विद्वलननतदृकर्म उत्तमज्यया कथितं तदस्माकं न मतम्, चन्द्रमसो दिनं रात्रिरिति वचनात् सूर्यस्य रात्रिदलं चन्द्रदिनार्द्धमिति, रात्रिदलम् १६/४९ इष्टघटी पूर्णिमाघटी ११।५१ उभयोरन्तरम् ४।७७ प्राङ्गतमुनतम् २५ । ३ सूर्यस्य नतार्थ रात्रिशेषे गते वा भवति समये वेज्जन्म तत्तद्वटीभिः संयुक्ते वासरार्द्धे खलु नतघटिकाः प्राकूप्रतीच्यो भवेयुरिति सूर्यस्य २५/३ पश्चिमेऽर्थाच्चन्द्रो
तमेव सूर्यस्य नतम् नतेन ४।५७ हीनाः खगुणाः २५/३ नतेनैव ४।५७ गुणिताः १२४|० सूर्यनतेन २५ । ३ त्रिंशद्धीनाः ४ । ५७ सूर्यनतेनैव गुणिता १२ ४ । • एवमेभिः खशरभानुभुवः ११२५० भक्ता लब्धर्मशादि ९० । ४३ । ३२ दशवर्जितम् ८० । ४३ । ३२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com