________________
गणककुमुदकौमुदीटीकासमेतम् । (५७) रविहरोऽयं स्वदशांशेन ८।४ । २१ ऊनो जातश्चंद्रहरः ७२ । २९ । १२ रविमन्दफलम् । ३८॥ ४ रविहरेणाप्तमंशादि०।०।२८ चन्द्रमन्दफलम् ४ । १९ । ५२ चन्द्रहरेण लब्धम् । ३। ३४ प्राकपालत्वात्फलस्यर्णत्वाद्धनम्, गतेःस्वल्पान्तरत्वान्नतफलमुपेक्षितम्, नतफलसंस्कृतोऽर्कः ८ । ०। ४ । १७ चन्द्रः १ । २७ । ३५। १८ आभ्यां तिथिरेष्या ११ । ३८ ॥
अथ ग्रहाणां तात्कालिकत्वमिन्द्रवज्रयाहयातैष्यनाडीगुणिता धुभुक्तिः षष्टयाहृता तद्रहितो युतश्च । तात्कालिकः स्यात्स्वचरः शशीनो पर्वान्त एवं समलिप्तको स्तः ॥४॥
यातैष्येति-गतगम्येष्टघटीभिर्यहस्य दिनभुक्तिर्गुण्या षष्ट्या भाज्या लब्धेनौदयिको ग्रहस्तात्कालिकोऽन्यो वा गतफलेन रहितो गम्येन युतो वक्रिणि विपरीतमेवं तात्कालिकः स्पष्टौ चरफलेन संस्कृतौ, एवं तात्कालिकौ रविचन्द्रौ कृतौ समलिसको स्तः । अत्र पन्तिघटीकरणे शेषत्यागो भवति, तेन चन्द्रो गतिबाहुल्यादल्पान्तरं भवति, अतो विभान्विन्दोरंशा द्वादशभिर्भाज्याः शेषांशा हरात्त्याज्यास्तेषां कलास्ताभिश्चन्द्रसूर्ययोर्गती पृथक् अत्यन्तरेणाप्तेन कलाफलेन युतौ समन्वितौ समलिप्तिको स्तः । यथैष्यघटीभिः ११ । ३८ रविगति ६१ । २१ गुणिता ७१३ । ४२ षष्टया भक्ता लब्धेन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com