SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ गणककुमुदकौमुदीटीकासमेतम् । (५५) फलक्षयः स्फुटतरौ ग्रहणेऽथ ततस्तिथिः॥२॥ इति नतं क्रममौर्विकयोदितं क्रमजमेव हि जिष्णुजसम्मतम् । यदपरैः कृतमुत्क्रमजीवया बलनहतकर्म न तन्मतम् ॥३॥ युदलगतघटीनामित्यादिनोक्तेनेति-नतेन हीनैः पुनर्नतेनैव गुणितैः खगुणैस्त्रिंशद्भिः खशरभानुभुवः सार्द्धशतद्वयैकादशसहस्राणि भक्ते लब्धमंशादि दशमी रहितं रविहरः स्यात्, स एव रविहरः स्वदशांशेन रहितश्चन्द्रहरः स्यात्,अथार्कमन्दफलं रविहरेण चेद्भक्तं तदा रविफलं कलादिकं रविनतफलम्५स्यात् चन्द्रमन्दफलं चन्द्रहरेण भक्तं कलादिकं चन्द्रनतफलं स्यात्, रविनतफलं पश्चिमकपालस्थे रवौ धनं पूर्वकपालस्थेऽर्के ऋणम् अर्द्धरात्रान्मध्याह्नपर्यन्तं पश्चिमकपालमित्यर्थः, अथ चन्द्रग्रहणे तु रात्रिरेव दिनत्वेन व्यवह्रियत इति चन्द्रस्य वैपरीत्येन कपालव्यवस्था,मध्याह्नादर्धरात्रपर्यन्तं पूर्वकपालः, अर्द्धरात्रान्मध्याह्नपर्यन्तं पश्चिमकपाल इत्यर्थः, अथ चन्द्रे पूर्वकपालस्थे चन्द्रस्य मन्दफले ऋणे सति नतफलं चन्द्रे धनमर्थात्पश्चिमनते चन्द्रे फले ऋणे सत्यृणम्- इतरथा फले धने सत्युभयतः प्राकपालस्थे परकपालस्थे वा चन्द्रे नतफलमृणम्,एवमेतौ ग्रहणे स्फुटतरौ विधाय ताभ्यामेवात्र तिथिः साध्या । कैश्चिदित्यत्रासकदिदं कर्म कृतं परमनुक्तत्वान्नासकृत्क्रियते, तथा कैश्चिदपि सूर्याचन्द्रमसो क्तिरपि नतेन संस्कृता तच्चैवं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034533
Book TitleKaran Kutuhalam
Original Sutra AuthorN/A
AuthorBhaskaracharya
PublisherKshemraj Krishnadas
Publication Year1902
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy