Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas

View full book text
Previous | Next

Page 31
________________ गणककुमुदकौमुदीटीकासमेतम् । (२७) अथ मध्यमा कदयिकास्तेषां स्फुटोदयिककरणाय कर्मोपजात्यर्द्धेनाह भानोः फलं भै२७र्विहतं च चन्द्रे मध्ये विधेयं रविवर्द्धनर्णम् । भानोरिति । ज्यायाः खपञ्चबाणैः ५५० लब्धं भानोः फलं भैः सप्तविंशतिभिर्भक्तं फलमंशादि मध्यमचन्द्रे धनर्ण कार्यम्, रविफलं रवौ यदि धनं स्यात्तदा मध्यमचन्द्रे धनं कार्यम् ऋणं चेत्तदा ऋणमेव कार्यम् ततश्चन्द्रः स्पष्टो विधेयः अन्येषां स्वल्पान्तरत्वान्न कृतम् ॥ अथ सूर्यादीनां गतेर्मन्दफलमुपजात्यद्वैनेन्द्रवज्रया चाहस्वभोग्यखण्डं नव ९ हृत्खरांशोर्विश्वा १३ हतं वेद ४ हृतं हिमांशोः ॥ ११ ॥ द्विघ्नं नगा ७ प्तं कुजसौम्ययोश्च खाक्षै ५० रिनैः १२ खार्क १२ मितैश्च भक्तम् । जीवादिकानां च गतेः फलं तत्स्वर्ण क्रमात्कर्कमृगादिकेन्द्रे ॥ १२ ॥ यस्य ग्रहस्य मुक्तिफलं साध्यं तस्य भुजज्याकरणे यद्धोग्यखण्डं तत्सूर्यसम्बन्धि चेत्तदा नव९ निर्भाज्यं लब्धं कलादिकं ग्राह्यं तत्सूर्यगतिफलं स्यात्, एवं चंद्रस्य स्वभोग्यखण्डं विश्वै १३ गुणितं वेदै४र्भक्तं लब्धं चंद्रस्य गतिफलं स्यात्, अथ द्वाभ्यां २ गुणितं सप्तभि ७ भक्तं कुजस्य गतिफलं स्यात्, एवं बुधस्य च केवलम्, गुरोः स्वभोग्यखण्डं खाक्षैः पञ्चाशद्भिः ५० भक्तं लब्धं गुरोर्गतिफलं स्यात् एवं शुक्रस्य स्वभोग्यखण्डमिनैर्द्वादशभि १२ तं भृगुगतिफलं स्यात्, C Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160