________________
गणककुमुदकौमुदीटीकासमेतम् । (२७)
अथ मध्यमा कदयिकास्तेषां स्फुटोदयिककरणाय कर्मोपजात्यर्द्धेनाह
भानोः फलं भै२७र्विहतं च चन्द्रे मध्ये विधेयं रविवर्द्धनर्णम् । भानोरिति । ज्यायाः खपञ्चबाणैः ५५० लब्धं भानोः फलं भैः सप्तविंशतिभिर्भक्तं फलमंशादि मध्यमचन्द्रे धनर्ण कार्यम्, रविफलं रवौ यदि धनं स्यात्तदा मध्यमचन्द्रे धनं कार्यम् ऋणं चेत्तदा ऋणमेव कार्यम् ततश्चन्द्रः स्पष्टो विधेयः अन्येषां स्वल्पान्तरत्वान्न कृतम् ॥
अथ सूर्यादीनां गतेर्मन्दफलमुपजात्यद्वैनेन्द्रवज्रया चाहस्वभोग्यखण्डं नव ९ हृत्खरांशोर्विश्वा १३ हतं वेद ४ हृतं हिमांशोः ॥ ११ ॥ द्विघ्नं नगा ७ प्तं कुजसौम्ययोश्च खाक्षै ५० रिनैः १२ खार्क १२ मितैश्च भक्तम् । जीवादिकानां च गतेः फलं तत्स्वर्ण क्रमात्कर्कमृगादिकेन्द्रे ॥ १२ ॥
यस्य ग्रहस्य मुक्तिफलं साध्यं तस्य भुजज्याकरणे यद्धोग्यखण्डं तत्सूर्यसम्बन्धि चेत्तदा नव९ निर्भाज्यं लब्धं कलादिकं ग्राह्यं तत्सूर्यगतिफलं स्यात्, एवं चंद्रस्य स्वभोग्यखण्डं विश्वै १३ गुणितं वेदै४र्भक्तं लब्धं चंद्रस्य गतिफलं स्यात्, अथ द्वाभ्यां २ गुणितं सप्तभि ७ भक्तं कुजस्य गतिफलं स्यात्, एवं बुधस्य च केवलम्, गुरोः स्वभोग्यखण्डं खाक्षैः पञ्चाशद्भिः ५० भक्तं लब्धं गुरोर्गतिफलं स्यात् एवं शुक्रस्य स्वभोग्यखण्डमिनैर्द्वादशभि १२ तं भृगुगतिफलं स्यात्,
C
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com