________________
७३
बौद्धमम्मतज्ञानार्थक्य निराकरणम् । नीलं न किश्चित् संवेद्येत । तस्मात् सहसंवेदननिय मेऽस्त्येव सहावस्थाननियमः । तदयमतादात्म्ये प्रकारान्तरेण वक्तव्यः । तच न हेतु-फलभावः, वह्निशून्यस्यापि धूमस्य
दर्शनात् । न च प्रकाश्य-प्रकाशकभावः, सर्वेषां स्त्रात्ममात्रपर्यवसितत्वेन तस्याऽघटनात् । 113A न चाप्रतिबन्धे सम्भवति । न हि यद्यत्रानायत्तरूपं तस्य तेन सहावस्थाननियमो भवति ।
तस्मात्तादात्म्यादेवायं सहावस्थाननियमः । ततो यदि नाम ज्ञानस्य स्वसंविदिततयो- 5 त्पत्तस्तादात्म्याभावेऽपि सहोपलम्भनियमस्तथापि सहारस्थाननियमो न सिध्यति" [ ] इति ।
स तावदतिस्पष्टं पृष्टो व्याचष्टाम्-ये भगवता सर्वज्ञेन युगप बहवो वार्त्तमानिका पदार्थास्तदाकारात्मवेदनेन प्रकारान्तरेण वा परिच्छिद्यन्ते तेपी सहावस्थाननियमो यद्यप्ति स कं 1138 सम्बन्धमवलम्बते ? न तावत् कार्यकारणभावम् , सर्वेषां परस्परं तदभावात् व्यभिचारित्वाच्च। 10
न च तादात्म्यमनभ्युपगमात् । अत एव प्रकारान्तरमपि न । अथ नास्ति, न तर्हि योगपद्यवातमानिकत्वविशेषणद्वयसम्भवः । ततो यथा हेतुफलमावाद्यभावेऽपि तेषां सहावस्थाननियमस्तथा ज्ञाना-ऽर्थयोरपि भविष्यति । न च द्वाभ्यामेव सम्बन्धाभ्यामखिलमिदं जगदितरेतरमभिसम्बध्यते, विचित्ररूपत्वाद्भावानां कस्यापिकथञ्चित् कचिदभिसम्बन्धात् । न च ये सर्वकाधिगम्याः सूक्ष्मा वस्तूनां विशेषाः प्राकृतैः प्रकाशयितुं न शक्यन्त 15
इति न सम्भवन्त्येव ते, तथाभूतानां वहूनां सम्भवात् । ततो यदि नाम प्रति114A बन्धान्तरं न शक्यते प्रकाशयितुं तथापि सहावस्थाननियमान्यथानुपपत्याऽस्तीति
गम्यत एव, उपेयस्यौपयिकनान्तरीयकत्वात् । तस्मात् सहावस्थाननियमादपि नार्थज्ञानयोरभेदसिद्धिः ।
स्यादेवम्-यत् प्रकाशते तज्ज्ञानम् , प्रकाशन्ते च नीलादयः । इत्थं च प्रति- 20 बन्धसिद्धिः। नीलादयो यदि मिनज्ञानवशात् प्रकाशन्ते तदा प्रकाश एव न स्यात् । अर्थप्रकाशो हि ज्ञानम् । यश्च तद्रूपो न भवति स कथं प्रकाशताम् । न ह्यश्वेत
१ तादात्म्याभावे सति ।। २ पदार्थाना स्वतन्त्रत्वात् ॥ ३ सर्वमपि स्वकारणनितम् , ततो न किञ्चित् कस्यापि प्रकाशकं प्रकाश्यं वा ॥ ४ कस्मिंश्चिदपि प्रतिबन्धेऽसति सहावस्थाननियमः संभवति ॥ ५ पदार्था इति सामान्योक्तावपि अत्र सर्वेषां शिष्यचित्तक्षणानां ज्ञानानि ग्राह्याणि, यतो ज्ञानैः सह परस्परं तादात्म्यं 25 नांगीकृतमस्ति, किन्तु अन्यैः पदार्थरिति ॥ ६ सर्वज्ञज्ञानान्यज्ञानानाम् || ७ अनभ्युपगमादेव ॥ ८ सहावस्थाननियमः ॥ ९ सर्वज्ञज्ञानान्यज्ञानलक्षणबाह्यपदार्थानाम् ॥ १० अस्मदीयज्ञान-बाह्यपदार्थयोः ॥ ११ परस्परम् || १२ यदस्ति तज्ज्ञानम् , प्रकाशकत्वात् ।। १३ पदार्थः ॥ १४ प्रकाशरूपः ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org