Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 270
________________ 10 सदसद्रूपत्वसाधनम् २०५ व्यक्ति मित्रं । अन्यद्धि पटरूपासत्त्वं घटेऽन्यच्च स्तम्भादिषु । ततः पटरूपासत्त्वमेव व्यापकं न भवति कुतस्तेदभेदाद् घटरूपसत्त्वं तथा म्यात् । तस्मादवाधितप्रमाणविषय त्वात् सदसरूपं वस्तु परमार्थसदेवेति स्थितम् ।। 101 ननु सदसत्त्वे भावाभावरूपे, भावोपमर्दनात्मकं चाभावस्य रूपम् । यदि चासत्वेन सत्वं ग्रासीकृतं तदाऽसत्त्वरूपतेव वस्तुनः स्यात् , सत्वरूपस्य नामापि 5 नश्येदिति । न । भावोपमर्दनात्मकोऽभाव इति मार्गः श्रेयानुत्प्रेक्षितः । किन्तु स्वाभावः पराभावो वा भावोपमर्दनात्मक इत्यत्र विवेककरणे भ्रान्तोऽसि स्वाभाव एव हि भावोपमर्दनात्मको न पराभावः । वस्तूनां चासत्वं पररूपेण न स्वरूपेण । ततः पररूपाभावरूपेणासत्वेन स्वरूपसत्वस्य ग्रासीकरणऽपि न वस्तुनोऽसत्त्वरूपतेव भवति, स्वसचाभावेनाऽग्रासीकरणात् । ___स्यादेवम्--पररूपासत्त्वमित्यत्र नञ् पर्युदासः प्रसज्यो वा ? पर्युदासत्वे भावान्तरमेवोक्तं स्यात् , तस्य विधिविषयत्वात् । न च भावो भावान्तरात्मा भवति, प्रत्यक्षबाधितत्वात् । प्रसज्यत्वे तु तुच्छरूपं पररूपासचमुक्तं म्यात् । तस्य च 101B वस्तुधर्मत्वानुपपत्तिः । न हि निरुपान्यं सोपाग्यम्वभावं भवितुमर्हतीति । न । केवलसतः केवलासतश्च सकाशात सदसरूपं वस्तु जात्यन्तरमेव । ततस्तत्र नविचार: 15 क्रियमाणः केवलं वायुभक्षतामेव पिशुनयति । यदि वा प्रसज्यप्रतिषेधेऽपि न पररूपासत्त्वं तुच्छरूपम् , अतुच्छरूपेण स्वरूपसन्वेनाभेदात् । न हि केवलं सच्चमसचं वा क्वचिदप्यस्ति, किन्तु सर्वत्र सच्चसंवलितमेवासचम्। तस्मादबाधितप्रमाणविषयत्वाद्वस्तुनः सदसद्रूपत्वे वस्तुसती । सदसद्रूपते स्वतो धर्मिणश्च स्यादर्भदिन्यौ, धर्मधर्मिणो- 20 रेकान्तभेदाभेदयोः सम्वन्धाभावात् । तदेकं सदसद्रूपमिति । संदसद्रूपते इति । स्वतः परस्परस्माद् धर्मिणश्च द्रव्यात् , स्यात् कथञ्चित् , धर्मधर्मिणारेकान्तभेदाभेदयोः सम्बन्धाभावात् , धर्मधर्मिणो कान्तभेदे समवायः सम्बन्धो न घटते, तस्यैकत्वेन सर्वस्य तथाभावप्रसङ्गात् । संयोगश्च द्रव्ययोरेव 202A भवति । एकान्ताभेदेऽपि कस्य केन सम्बन्धः स्यात् , अनेकवस्तुनिष्ठत्वात् तस्य । 25 तस्मात् कथञ्चिदभेद एव सम्बन्धः। धर्मिणश्चैकस्मात् कथञ्चिदभेदाद्धर्माणामपि १ पटरूपासत्त्वाभेदात् || २ व्यापकम् || ३ स्वरूपसत्त्वाभावेनेत्यर्थः ।। ४ नरसिंहयत् ॥ ५ सदसद्रूपते स्वतो धर्मिणाम स्याद दिन्यो । ६ न च धर्मधर्मिणोः । न धर्मयोः ।। Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318