Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 288
________________ द्वितीयं परिशिष्टम् २२३ विद्यते । ..... अतो रूप-रस-गन्ध-स्पर्शा एव विशिष्टपरिणामानुगृहीताः सन्तो मूर्त्तिव्यपदेशभाजो भवन्ति ।" - इति सिद्धसेनगणिविरचितायां तत्त्वार्थवृत्तौ पृ.३२३-३२४ । पृ.२ ६.१५ । स्पर्शग्रहणमादौ... । तुलना- “स्पर्शग्रहणमादौ विषयबलदर्शनात् ।१। .. सर्वसंसारिजीवग्रहणयोग्यत्वाच्च । .... तत एवानन्तरं रसवचनम्, स्पर्शग्रहणानन्तरभावित(भावि)त्वाद् रसग्रहणस्य तदनन्तरं तद्ग्रहणं क्रियते ।.... रूपात् प्राग् गन्धवचनमचाक्षुषत्वात् ।।। .... अन्ते वर्णग्रहणं स्थौल्ये सति तदुपलब्धेः ।५।....” इति तत्त्वार्थराजवार्तिके ५।२३। पृ० ४८४ । “स्पर्शरसगन्धवर्णवन्तः पुद्गलाः [तत्त्वार्थ. ५।२३], स्पर्शग्रहणमादौ विषयबलदर्शनात् । सर्वेषु हि विषयेषु रसादिषु स्पर्शस्य बलं दृश्यते, स्पष्टग्राहिषु इन्द्रियेषु स्पर्शस्यादौ ग्रहणव्यक्तेः । सर्वसंसारिजीवग्रहणयोग्यत्वाच्चादौ स्पर्शस्य ग्रहणम् । .... तत एवानन्तरं रसवचनम्, स्पर्शग्रहणानन्तरभावि हि रसग्रहणम् । रूपात् प्राग् गन्धवचनमचाक्षुषत्वात् । अन्ते वर्णग्रहणं स्थौल्ये सति तदुपलब्धेः” इति तत्त्वार्थश्लोकवार्तिके ५।२३, पृ.४१९।। पृ.२ पं.१८ । नन्वन्ये संस्थानं मूर्तिमाहुः .... । तुलना- “रूपादिसंस्थानपरिणामो मूर्तिः ।२। रूपमादिर्येषां त इमे रूपादयः । के पुनस्ते ? रूप-रस-गन्ध-स्पर्शाः । परिमण्डल-त्रिकोण-चतुरस्राऽऽयतचतुरस्रादिराकृतिः संस्थानम् । तैः रूपादिभिः संस्थानैश्च परिणामो मूर्तिरित्याख्यायते'' इति अकलङ्कदेवविरचिते तत्त्वार्थराजवार्तिके ५५, पृ.४४४ । ___ “रूपिणः पुद्गलाः [तत्त्वार्थ. ५/५], रूपशब्दस्यानेकार्थत्वेऽपि मूर्तिमत्पर्यायग्रहणं शास्त्रसामर्थ्यात् । ततो रूपं मूर्तिरिति गृह्यते 'रूपादिसंस्थानपरिणामो मूर्तिः' [तत्त्वार्थराज.] इति वचनात्” इति तत्त्वार्थश्लोकवार्तिके पृ.३९६ ॥ पृ.३ पं.१९- पृ.७ पं.४ । कठिनादिरष्टधा स्पर्श.. । तुलना - "तत्र स्पर्शोऽष्टविधः - कठिनो मृदुर्गुरुर्लघुः शीत उष्णः स्निग्धो रूक्ष इति । रसः पञ्चविधः- तिक्तः कटुः कषायोऽम्लो मधुर इति । गन्धो द्विविधः- सुरभिरसुरभिश्च । वर्णः पञ्चविधः- कृष्णो नीलो लोहितः पीतः शुक्ल इति ।" इति तत्त्वार्थभाष्ये ५।२३।। "कठिनादयो विद्वदङ्गना- बालादिप्रतीतास्तथापि सुप्रयुक्तकारिभिरमूनि लक्षणानि प्रत्येकं प्रकाश्यन्तेअनमनात्मकः कठिनः, सन्नतिलक्षणो मृदुः, अधोगमनहेतुर्गुरुः, प्रायस्तिर्यगूर्ध्वगमनहेतुर्लघुः, वैशधकृत् स्तम्भनस्वभावः शीतः, मार्दव-पाककृदुष्णः, संयोगे सति संयोगिनां बन्धकारणं स्निग्धः, तथैवाऽबन्धकारणं च रूक्षः । इतिशब्दः परिस्थूरस्पर्शभेदेयत्ताप्रतिपादनार्थः । ... श्लेष्मशमनकृत् तिक्तः, श्लेष्मभेद-पाटवकृत् कटुः, अनरुचिस्तम्भनकर्ता कषायः, आश्रवणक्लेदनकृदम्लः, ह्लादन-बृंहणकृन्मधुरः, लवणो मधुरान्तर्गत इत्येके, संसर्गज इत्यपरे । सुरभिश्चन्दनोशीर-कश्मीरजादीनाम्, असुरभिर्लसुन-विष्ठादीनाम्, सौमुख्यवैमुख्यकारित्वात् साधारण इत्येके, तन्न, उभयोरन्तीतविषयत्वात् । कृष्णादयो वर्णाः क्रमेण अञ्जनशुकपत्र-रुधिर-काञ्चन-शङ्खादिषु विभावनीयाः । संसर्गजाः सारङ्गादयः ।" इति सिद्धसेनगणिविरचितायां तत्त्वार्थवृत्तौ ५।२३, पृ.३५६ ।। "गुण्यन्ते संख्यायन्त इति गुणाः, तेषां नाम गुणनाम । ‘वण्णनामे' इत्यादि । तत्र वर्ण्यते अलक्रियते वस्तु अनेनेति वर्णः कृष्णादिः पञ्चधा प्रतीत एव । कपिशादयस्तु एतत्संयोगेनैवोत्पद्यन्ते, Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318