________________
द्वितीयं परिशिष्टम्
२२३ विद्यते । ..... अतो रूप-रस-गन्ध-स्पर्शा एव विशिष्टपरिणामानुगृहीताः सन्तो मूर्त्तिव्यपदेशभाजो भवन्ति ।" - इति सिद्धसेनगणिविरचितायां तत्त्वार्थवृत्तौ पृ.३२३-३२४ ।
पृ.२ ६.१५ । स्पर्शग्रहणमादौ... । तुलना- “स्पर्शग्रहणमादौ विषयबलदर्शनात् ।१। .. सर्वसंसारिजीवग्रहणयोग्यत्वाच्च । .... तत एवानन्तरं रसवचनम्, स्पर्शग्रहणानन्तरभावित(भावि)त्वाद् रसग्रहणस्य तदनन्तरं तद्ग्रहणं क्रियते ।.... रूपात् प्राग् गन्धवचनमचाक्षुषत्वात् ।।। .... अन्ते वर्णग्रहणं स्थौल्ये सति तदुपलब्धेः ।५।....” इति तत्त्वार्थराजवार्तिके ५।२३। पृ० ४८४ ।
“स्पर्शरसगन्धवर्णवन्तः पुद्गलाः [तत्त्वार्थ. ५।२३], स्पर्शग्रहणमादौ विषयबलदर्शनात् । सर्वेषु हि विषयेषु रसादिषु स्पर्शस्य बलं दृश्यते, स्पष्टग्राहिषु इन्द्रियेषु स्पर्शस्यादौ ग्रहणव्यक्तेः । सर्वसंसारिजीवग्रहणयोग्यत्वाच्चादौ स्पर्शस्य ग्रहणम् । .... तत एवानन्तरं रसवचनम्, स्पर्शग्रहणानन्तरभावि हि रसग्रहणम् । रूपात् प्राग् गन्धवचनमचाक्षुषत्वात् । अन्ते वर्णग्रहणं स्थौल्ये सति तदुपलब्धेः” इति तत्त्वार्थश्लोकवार्तिके ५।२३, पृ.४१९।।
पृ.२ पं.१८ । नन्वन्ये संस्थानं मूर्तिमाहुः .... । तुलना- “रूपादिसंस्थानपरिणामो मूर्तिः ।२। रूपमादिर्येषां त इमे रूपादयः । के पुनस्ते ? रूप-रस-गन्ध-स्पर्शाः । परिमण्डल-त्रिकोण-चतुरस्राऽऽयतचतुरस्रादिराकृतिः संस्थानम् । तैः रूपादिभिः संस्थानैश्च परिणामो मूर्तिरित्याख्यायते'' इति अकलङ्कदेवविरचिते तत्त्वार्थराजवार्तिके ५५, पृ.४४४ ।
___ “रूपिणः पुद्गलाः [तत्त्वार्थ. ५/५], रूपशब्दस्यानेकार्थत्वेऽपि मूर्तिमत्पर्यायग्रहणं शास्त्रसामर्थ्यात् । ततो रूपं मूर्तिरिति गृह्यते 'रूपादिसंस्थानपरिणामो मूर्तिः' [तत्त्वार्थराज.] इति वचनात्” इति तत्त्वार्थश्लोकवार्तिके पृ.३९६ ॥
पृ.३ पं.१९- पृ.७ पं.४ । कठिनादिरष्टधा स्पर्श.. । तुलना - "तत्र स्पर्शोऽष्टविधः - कठिनो मृदुर्गुरुर्लघुः शीत उष्णः स्निग्धो रूक्ष इति । रसः पञ्चविधः- तिक्तः कटुः कषायोऽम्लो मधुर इति । गन्धो द्विविधः- सुरभिरसुरभिश्च । वर्णः पञ्चविधः- कृष्णो नीलो लोहितः पीतः शुक्ल इति ।" इति तत्त्वार्थभाष्ये ५।२३।।
"कठिनादयो विद्वदङ्गना- बालादिप्रतीतास्तथापि सुप्रयुक्तकारिभिरमूनि लक्षणानि प्रत्येकं प्रकाश्यन्तेअनमनात्मकः कठिनः, सन्नतिलक्षणो मृदुः, अधोगमनहेतुर्गुरुः, प्रायस्तिर्यगूर्ध्वगमनहेतुर्लघुः, वैशधकृत् स्तम्भनस्वभावः शीतः, मार्दव-पाककृदुष्णः, संयोगे सति संयोगिनां बन्धकारणं स्निग्धः, तथैवाऽबन्धकारणं च रूक्षः । इतिशब्दः परिस्थूरस्पर्शभेदेयत्ताप्रतिपादनार्थः । ... श्लेष्मशमनकृत् तिक्तः, श्लेष्मभेद-पाटवकृत् कटुः, अनरुचिस्तम्भनकर्ता कषायः, आश्रवणक्लेदनकृदम्लः, ह्लादन-बृंहणकृन्मधुरः, लवणो मधुरान्तर्गत इत्येके, संसर्गज इत्यपरे । सुरभिश्चन्दनोशीर-कश्मीरजादीनाम्, असुरभिर्लसुन-विष्ठादीनाम्, सौमुख्यवैमुख्यकारित्वात् साधारण इत्येके, तन्न, उभयोरन्तीतविषयत्वात् । कृष्णादयो वर्णाः क्रमेण अञ्जनशुकपत्र-रुधिर-काञ्चन-शङ्खादिषु विभावनीयाः । संसर्गजाः सारङ्गादयः ।" इति सिद्धसेनगणिविरचितायां तत्त्वार्थवृत्तौ ५।२३, पृ.३५६ ।।
"गुण्यन्ते संख्यायन्त इति गुणाः, तेषां नाम गुणनाम । ‘वण्णनामे' इत्यादि । तत्र वर्ण्यते अलक्रियते वस्तु अनेनेति वर्णः कृष्णादिः पञ्चधा प्रतीत एव । कपिशादयस्तु एतत्संयोगेनैवोत्पद्यन्ते,
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org