________________
२२४
द्वितीयं परिशिष्टम्
न पुनः सर्वथा एतद्विलक्षणा इति नेहोदाहृताः । गन्ध्यते आघ्रायते इति गन्धः, तस्य नाम गन्धनाम, स च द्विविधः - सुरभिर्दुरभिश्च । तत्र सौमुख्यकृत् सुरभिः, वैमुख्यकृद् दुरभिः । अत्रापि उभयसंयोगजः पृथग् नोक्तः, एतत्संसर्गजत्वादेव भेदाविवक्षणात् । रस्यते आस्वाद्यत इति रसः, तस्य नाम रसनाम, स च तिक्तकटुकषाया -ऽम्ल-: - मधुरभेदात् पञ्चविधः, तत्र श्लेष्मादिदोषहन्ता निम्बाद्याश्रितस्तिक्तो रसः । तथा च भिषक्शास्त्रम्
'श्लेष्माणमरुचिं पित्तं तृषं कुष्ठं विषं ज्वरम् ।
1
हन्यात् तितो रसो बुद्धेः कर्ता मात्रोपसेवितः ॥ १ ॥ ' [ गलामयादिप्रशमनो मरिच - नागराद्याश्रितः कटुः । उक्तं च'कटुर्गलामयं शोफं हन्ति युक्त्योपसेवितः ।
]
दीपनः पाचको रुच्यो बृंहणोऽतिकफापहः || १ || ' [ रक्तदोषाद्यपहर्ता बिभीतका -ऽऽमलक-कपित्थाद्याश्रितः कषायः । आह च 'रक्तदोषं कफं पित्तं कषायो हन्ति सेवितः । रूक्षः शीतो गुरुग्राही रोपणश्च स्वरूपतः ॥ १॥ [ अग्निदीपनादिकृदम्लीकाद्याश्रितोऽम्लः । पठ्यते च - 'अम्लोऽग्निदीप्तिकृत् स्निग्धः शोफ-पित्त-कफापहः । क्लेदनः पाचनो रुच्यो मूढवातानुलोमकः ||१|| [ पित्तादिशमकः खण्ड-शर्कराद्याश्रितो मधुरः । तथा चोक्तम्'पित्तं वातं कफं हन्ति धातुवृद्धिकरो गुरुः । जीवनः केशकृद् बाल-वृद्ध-क्षीणौजसां हितः || १ || ' [ स्थानान्तरे स्तम्भिताहारबन्धविध्वंसकर्ता सिन्धुलवणाद्याश्रितो लवणोऽपि रसः पठ्यते । स चेह नोदाहृतो मधुरादिसंसर्गजत्वात् तदभेदेन विवक्षणात् । सम्भाव्यते च तत्र माधुर्यादिसंसर्गः, सर्वरसानां लवणप्रक्षेप एव स्वादुत्वप्रतिपत्तेरित्यलं विस्तरेण ।
] इत्यादि ।
स्पृश्यत इति स्पर्श: कर्कशादिरष्टविधः । तत्र स्तब्धताकारणं दृषदादिगतः कर्कशः । सन्नतिकारणं तिनिशलतादिगतो मृदुः । अधःपतनहेतुरयोगोलकादिगतो गुरुः । प्रायस्तिर्यगूर्ध्वाधोगमनहेतुरर्कतूलादिनिश्रितो लघुः । देहस्तम्भादिहेतुः प्रालेयाद्याश्रितः शीतः । आहारपाकादिकारणं वह्न्याद्यनुगत उष्णः । पुद्गलद्रव्याणां मिथः संयुज्यमानानां बन्धनिबन्धनं तैलादिस्थितः स्निग्धः । तेषामेवाऽबन्धनिबन्धनं भस्माद्याधारो रूक्षः । एतत्संसर्गजास्तु नोक्ताः, एष्वेवान्तर्भावादिति ॥” इति मलधारिश्रीहेमचन्द्रसूरिविरचितायाम् अनुयोगद्वारसूत्रवृत्तौ पृ.२७०-२७१ ।
Jain Education International 2010_05.
1
पृ. ९ पं.८ । परिणाम:.... । तुलना- “ द्रव्यस्य स्वजात्यपरित्यागेन प्रयोग - विस्रसालक्षणो विकारः परिणामः । द्रव्यस्य चेतनस्येतरस्य वा द्रव्यार्थिकनयस्य अविवक्षातो न्यग्भूतां स्वां द्रव्यजातिमजहतः पर्यायार्थिकनयार्पणात् प्राधान्यं बिभ्रता केनचित् पर्यायेण प्रादुर्भावः पूर्वपर्यायनिवृत्तिपूर्वको विकारः प्रयोगविस्रसालक्षणः परिणाम इति प्रतिपत्तव्यः । तत्र प्रयोगः पुद्गलविकारः, तदनपेक्षा प्रक्रिया विसा । तत्र परिणामो द्विविधः - अनादिरादिमांश्च । अनादिर्लोकसंस्थान - मन्दराकारादिः । आदिमान् प्रयोगजो वैस्रसिकश्च । तत्र चेतनस्य द्रव्यस्योपशमिकादिभावः कर्मोपशमाद्यपेक्षोऽपौरुषेयत्वाद् वैनसिक इत्युच्यते । ज्ञा (दा?)न
For Private & Personal Use Only
]
www.jainelibrary.org