________________
द्वितीयं परिशिष्टम्
२२५ शील-भावनादिलक्षण आचार्यादिपुरुषप्रयोगनिमित्तत्वात् प्रयोगजः । अचेतनस्य मृदादेः घटसंस्थानादिपरिणामः कुलालादिपुरुषप्रयोगनिमित्तत्वात् प्रयोगजः । इन्द्रधनुरादिनानापरिणामो वैनसिकः । तथा धर्मादेरपि परिणामो योज्यः ।" इति तत्त्वार्थराजवार्तिके ५।२२, पृ.४७८ ।
“कः पुनः परिणामः ? द्रव्यस्य स्वजात्यपरित्यागेन प्रयोग-विस्रसालक्षणो विकारः परिणामः । तत्र विस्रसापरिणामोऽनादिरादिमांश्च । चेतनद्रव्यस्य तावत् स्वजातेश्चेतनद्रव्यत्वाख्याया अपरित्यागेन जीवत्वभव्यत्वा-ऽभव्यत्वादिरनादिः, औपशमिकादिः पूर्वाकारपरित्यागाज(ज?)हद्वृत्तिरादिमान्, स तु कर्मोपशमाद्यपेक्षत्वादपौरुषेयत्वाद् वैनसिकः । अचेतनद्रव्यस्य तु लोकसंस्थान-मन्दराकारादिरनादिः, इन्द्रधनुरादिरादिमान् पुरुषप्रयत्नानपेक्षत्वादेव वैनसिकः । प्रयोगजः पुनर्दान-शील-भावनादिश्चेतनस्य आचार्योपदेशलक्षणपुरुषप्रयत्नापेक्षत्वात्, घटसंस्थानादिरचेतनस्य, कुलालादिपुरुषप्रयोगापेक्षत्वात् । धर्मास्तिकायादिद्रव्यस्य तु वैससिकोऽसंख्येयप्रदेशित्वादिरनादिः परिणामः, प्रतिनियतगत्युपग्रहहेतुत्वादिरादिमान् । प्रयोगजो यन्त्रादिगत्युपग्रहहेतुत्वादिः पुरुषप्रयोगापेक्षत्वात्" इति तत्त्वार्थश्लोकवार्तिके ५।२२, पृ.४१४ ।
__ पृ.११ पं.१० । परिणामिनो... । तुलना- “व्यवस्थिताव्यवस्थितदोषात् परिणामाभाव इति चेत्, न, अनेकान्तात् । न हि वयमङ्कुरे बीजं व्यवस्थितमेव ब्रूमहे, विरोधादङ्कुराभावप्रसङ्गात् । नाप्यव्यवस्थितमेव, अङ्कुरस्य बीजपरिणामत्वाभावप्रसङ्गात्, पदार्थान्तरपरिणामत्वाभाववत् । किं तर्हि ? स्याद् बीजं व्यवस्थितं स्यादव्यवस्थितमङ्कुरे व्याकुर्महे । न चैकान्तपक्षभावी दोषोऽनेकान्तेष्वस्तीत्युक्तप्रायम् । स्याद्वादिनां हि बीजशरीरादे(दि?)रेव वनस्पतिकायिको बीजांकुरादिः स्वशरीरपरिणामभागभिमतः यथा कललशरीरे मनुष्यजीवोऽर्बुदादिस्वशरीरपरिणामभृदिति, न पुनरन्यथा सः ।" इति तत्त्वार्थश्लोकवार्तिके ५।२२ पृ.४१५।।
___ “व्यवस्थिताव्यवस्थितदोषादिति चेत्, न, अनेकान्तात् ।१४। स्यान्मतम्-बीजेऽङ्कुरत्वेन परिणते अङ्कुरे बीजं व्यवस्थितं वा स्यात्, अव्यवस्थितं वा ? यदि व्यवस्थितम्, बीजस्य व्यवस्थानात् विरोधात् अङ्कुराभावः । अथाव्यवस्थितम्, न तर्हि बीजमङ्कुरत्वेन परिणतम् । तस्मादुभयत्र दोषान्नास्ति परिणाम इति । तन्न । किं कारणम् ? अनेकान्तात् ..... ।” इति तत्त्वार्थराजवार्तिके ५।२२, पृ.४७८४७९ ।
पृ.११ पं.१५ । स्यान्मतम्... । तुलना - “वृद्ध्यभावप्रसङ्ग इति चेत्, न, अन्यहेतुत्वात्। स्यादेतत्- नास्ति परिणामः, कुतः ? वृद्ध्यभावप्रसङ्गात् । यदि बीजमङ्कुरत्वेन परिणमेत, बीजमात्र एवाङ्कुरः स्यात्, पयःपरिणामदधिवत् । ततो वृद्ध्यभावः । उक्तं च
'किंचान्यद् यदि तद् बीजं गच्छेदङ्कुरतामिह । विवृद्धिरङ्कुरस्य स्यात् कथं बीजादपुष्कलात् ?।।'
भौमोदकरससम्बन्धाद् वृद्धिरिति चेत्, न, बीजपरिणामाभावप्रसङ्गात् । उक्तं च'अथेष्टं तै रसै मैरौदकैश्च विवर्धते । नन्वेवं सति बीजस्य परिणामो न युज्यते ॥' [ ]
भौमोदकरसद्रव्यान्तरसंचयाद् वृद्धिरिति चेत्, न, द्रव्यान्तरसंयोगेऽपि वृद्ध्यभावात् । यदि भौमोदकरसद्रव्यान्तराणि संयोगवृद्ध्या वर्धन्ते, ननु वृद्ध्यभावः जतुसंयोगे काष्ठवृद्ध्यभाववत् । उक्तं च
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org