________________
२२६
द्वितीयं परिशिष्टम् 'आलिप्तं जतुना काष्ठं यथा स्थूलत्वमृच्छति । ननु काष्ठं तथैवास्ते जतु चात्र विवर्धते ॥ तथैव यदि तद् बीजमास्ते येनात्मना स्थितम् । रसाश्च वृद्धिं कुर्वन्ति बीजं तत्र करोति किम् ॥'
[ ] इति । तन्न । किं कारणम् ? अन्यहेतुत्वात् । 'बीजमात्रोऽङ्कुरो भवेत्' इति ब्रुवता त्वयैवाभ्युपगतः परिणामः। यस्तु भवता दोष उपन्यस्तः ‘वृद्ध्यभावप्रसङ्गः' इति नासौ युक्तः । कुतः ? अन्यहेतुत्वात् । यथा मनुष्यायुर्नामोदयाभ्यां जातो बालो बाह्यसावित्रकिरणादिसम्बन्धापेक्षः स्तन्य-नवनीताद्याहारमनुभवन् अभ्यन्तरवीर्यान्तरायक्षयोपशमाविर्भाविताहारजरणसामर्थ्य कायाग्निबलोपेत उपयुक्ताहाररसादिपरिणामान्निर्माणनामकर्मोदयापेक्षो वर्धते, तथा वनस्पतिविशेषायुर्नामोदयापेक्षो बीजाधिष्ठानो जीवोऽङ्कुरो जातो भौमोदकरसाहारं तप्तायःपिण्डवदात्मसात् कुर्वन् बाह्यसावित्रकिरणसन्तापाभ्यन्तरवीर्यान्तरायक्षयोपशमावि विताङ्कुर[ः] कायाग्निबलाद् भौमोदकरसान् जरयन् स्वानुरूपनिर्माणकर्मोदयापेक्षो वर्धते । अयं तु वृद्ध्यभावदोष एकान्तवादिनामेव भवति, नित्यत्वैकान्ते तावद्विपरिणामाभावात् वृद्ध्यभावः, क्षणिकैकान्तवादेऽपि प्रतीत्यसमुत्पादाभ्युपगमात्, तावतोऽधिगमे (तावतो विगमे?) तावत एवोपगमाद् वृद्ध्यभावः । किञ्च, सर्वेषां क्षणिकत्वादङ्कुरस्य तत्कारणाभिमतानां च भौमोदकरसादीनां युगपद्वा विनाशः स्यात् पौर्वापर्येण वा ? यदि युगपत्, नास्ति तत्कृता वृद्धिः । न हि वृद्धिहेतवो विनश्यन्तोऽन्यस्याविनश्यतोऽर्थस्य वृद्धिं कुर्वन्तो दृष्टाः । अथ पौर्वापर्येण, विनष्टस्याङ्करस्य भौमादयः किं कुर्वन्ति ? विनष्टा वा किं कुर्युः ? अनेकान्तवादिनां तु अङ्कुरो भौमादयश्च द्रव्यार्थादेशात् स्यान्नित्याः, पर्यायार्थादेशाच्च स्यात् क्षणिका इति वृद्ध्युपपत्तिः” इति तत्त्वार्थराजवार्तिके ५।२२, पृ.४७९-४८० ।
___ "स्यान्मतम्- न बीजमङ्कुरादित्वेन परिणमते वृद्ध्यभावप्रसङ्गात् । यो हि यत्परिणामः स न ततो वृद्धिमान् दृष्टो यथा पयःपरिणामो दध्यादिः, बीजपरिणामश्चाङ्कुरादिः, तस्मान्न ततो वृद्धिमानिति बीजमात्रमङ्कुरादिः स्यादतत्परिणामो वेति । उक्तं च
'किं चान्यद् यदि तद् बीजं गच्छेदङ्कुरतामिह । विवृद्धिरङ्कुरस्य स्यात् कथं बीजादपुष्कलात् ?॥१॥ अथेष्टं तै रसै मैरौदकैश्च विवर्धते । तस्यैव(नन्वेवं?) सति बीजस्य परिणामो न युज्यते ॥२॥ आलिप्त जतुना काष्ठं यथा स्थूलत्वमृच्छति । ननु काष्ठं तथैवास्ते जतु चात्र विवर्धते ॥३॥ तथैव तत्र तद् बीजमास्ते येनात्मना स्थितम् । रसाश्च वृद्धिं कुर्वन्ति बीजं तत्र करोति किम् ॥४॥'
[ ] इति । तदेतदनालोचिततत्त्ववचनम्, तदृद्धेरहेतुकत्वात् । यथा मनुष्यनामा-ऽऽयुःकर्मोदयविशेषतः । जातो बालो मनुष्यात्मा स्तन्याद्याहारमाहरन् ॥३४॥ सूर्यातपादिसापेक्षः कायाग्निबलमादधन् । वीर्यान्तरायविच्छेदविशेषविहितोद्भवम् ॥३५॥ विवर्धते निजाहाररसादिपरिणामतः । निर्माणनामकर्मोपष्टम्मादभ्यन्तरादपि ॥३६॥ तथा वनस्पतिर्जीवः स्वायुर्नामोदये सति । जीवाश्रयोऽङ्कुरो जातो भौमादिरसमाहरन् ॥३७।। तप्तायस्पिण्डवत् तोयं स्वीकुर्वन्नेव वर्धते । आत्मानुरूपनिर्माणनामकर्मोदयाद् ध्रुवम् ॥३८॥ ततो न वृद्ध्यभावोऽङ्कुरादेः । यदप्युक्तं 'यो यत्परिणामः स ततो न वृद्धिमान् दृष्टो यथा क्षीरपरिणामो
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org