________________
द्वितीयं परिशिष्टम्
२२७ दध्यादिर्न क्षीरादेः' इति । तत्र हेतुः कालात्ययापदिष्टः, धर्मि-दृष्टान्तग्राहकप्रमाणबाधितत्वात् । धर्मी तावद् बीजपरिणामोऽङ्करादिः, ततो वृद्धिमानेव प्रतिभासमानः कथं चाऽवृद्धिमाननुमातुं शक्यः । दृष्टान्तश्च शीतक्षीरस्य तप्यमानोत्फेन- क्षीरपरिणामः घर्मोद्वर्तितदधिपरिणामो वा क्षीराद् वृद्धिमानुपलभ्यमानः कथं तदृद्ध्यभावसाध्ये निदर्शनम् । 'तत्परिणामत्वात्' इत्यसिद्धं च साधनं परिणामाभाववादिनः । पराभ्युपगमात् तत्सिद्धौ वृद्धिसिद्धिरपि तत एव स्यात् सर्वथा विशेषाभावात् । तन्न वृद्ध्यभावात् परिणामाभावः स्याद्वादिनं प्रति. साधयितुं शक्यः ।" इति तत्त्वार्थश्लोकवार्तिके ५।२२ पृ.४१५-४१६ ॥
पृ.१२ पं.२३ । परिणाम: कश्चित् सदृशेतरः... । तुलना- “परिणामो हि कश्चित् पूर्वपरिणामेन सदृशो यथा प्रदीपादेर्वालादिः । कश्चिद् विसदृशो यथा तस्यैव कजलादिः । कश्चित् सदृशासदृशो यथा सुवर्णस्य कटकादिः । तत्र पूर्वसंस्थानाद्यपरित्यागे सति परिणामाधिक्यं वृद्धिः । सदृशेतरपरिणामो यथा बालकस्य कुमारादिभावः । सदृश एवायमित्ययुक्तम्, विसदृशप्रत्ययोत्पत्तेः, सर्वथा सादृश्ये बालकुमाराद्यवस्थयोः कुमाराद्यवस्थायामपि बालप्रत्ययोत्पत्तिप्रसङ्गात् बालकावस्थायां वा कुमारादिप्रत्ययोत्पत्तिप्रसक्तेः । सर्वथा विसदृश एव बालकपरिणामात् कुमारादिपरिणाम इत्यपि न प्रातीतिकम्, ‘स एवायम्' इति प्रत्ययस्वभावात् । भ्रान्तोऽसौ प्रत्यय इति चेत्, न, बाधकाभावात्, आत्मनि ‘स एवाह'प्रत्ययवत् । सर्वत्र तस्य भ्रान्तत्वोपगमे नैरात्म्यवादावलम्बनप्रसङ्गः, न चासौ श्रेयान्, वश्च सदृशेतरपरिणामात्मनो वस्तुनः साधनात्, प्रत्यभिज्ञानस्याभेदप्रत्ययस्य वा प्रामाण्यव्यवस्थापनात् । ततो युक्तः सदृशेतरपरिणामात्मको वृद्धिपरिणामः । एतेनापक्षयपरिणामो व्याख्यातः" इति तत्त्वार्थश्लोकवार्तिके ५।२२, पृ.४१६-४१७ ।
पृ.१४ पं.१ । अव्यापि स्यात्... । तुलना- “नन्वयं पक्षाव्यापको हेतुः स्पर्शादिः, जले गन्धस्याभावात्, तेजसि गन्ध-रसयोः, वायौ गन्ध-रस-रूपाणामनुपलब्धेः' इति ब्रुवाणं प्रत्याह- ....... तथाहि- आपो गन्धवत्यः, तेजो गन्ध-रसवद्, वायुः गन्ध-रस-रूपवान्, स्पर्शवत्त्वात्, पृथिवीवत् । कालात्ययापदिष्टो हेतुः प्रत्यक्षा-ऽऽगमविरुद्धपक्षनिर्देशानन्तरं प्रयुक्तत्वात्, तेजसि अनुष्णत्वे साध्ये द्रव्यत्ववत् इति चेत्, न, नायनरश्म्यादिष्वनुभूतरूपस्पर्शविशेषे साध्ये तैजसत्वहेतोः कालात्ययापदिष्टत्वप्रसङ्गात् । तत्रागमेन विरोधाभावात् तद्भावप्रतिपादनान्न दोष इति चेत्, तत एवान्यत्र दोषो मा भूत् । स्याद्वादागमस्य प्रमाणत्वमसिद्धमिति चेत्, न, तस्यैव प्रामाण्यसाधनात्, यौगागमस्यैव दृष्टेष्टविरुद्धत्वेन प्रामाण्यानुपपत्तेः ।.. नाप्यनै कान्तिकः, विपक्षवृत्त्यभावात् । अन्वयाभावादगमक इति चेत्, न, सर्वस्य केवलव्यतिरेकिणोऽप्रयोजकत्वप्रसङ्गात् । साध्याविनाभावनियमनिश्चयात् कस्यचित् प्रयोजकत्वे प्रकृतहेतोस्तत एव प्रयोजकत्वमस्तु' - इति तत्त्वार्थश्लोकवार्तिके ५।२३, पृ.४२० ।
पृ.१७ पं.८ । सप्रतिघत्वात्.... । “षष्ठाश्रयप्रसिद्ध्यर्थं धातवोऽष्टादश स्मृताः ।१।१७। पञ्चानां विज्ञानधातूनां चक्षुर्धात्वायतनादयः पञ्चाश्रयाः । षष्ठस्य मनोविज्ञानधातोराश्रयोऽन्यो नास्ति । अतस्तदाश्रयप्रसिद्ध्यर्थं मनोधातुरुपदिष्टः । एवमाश्रयाःऽऽश्रिता-ऽऽलम्बनषट्कव्यवस्थानेनाष्टादश धातवो भवन्तीति ।...... गोत्रार्थो धात्वर्थः । यथैकस्मिन् पर्वते बहूनि अयस्-ताम्र-रूप्य-सुवर्णादिगोत्राणि धातव उच्यन्ते एवमेकस्मिन्नाश्रये सन्ताने वा अष्टादश गोत्राणि अष्टादश धातव उच्यन्ते । आकरास्तत्र गोत्राण्युच्यन्ते।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org