________________
२२२
अथ द्वितीयं परिशिष्टम् ।
विशिष्टानि कतिपयानि टिप्पणानि [अस्मिन् परिशिष्टे द्रव्यालङ्कारटीकायां केषाञ्चित् पाठानां तुलनाद्यात्मकानि कानिचित्
टिप्पणानि उपन्यस्यन्ते] पृ.२ पं.२ । लक्षणं च... । तुलना-“तल्लक्षणं द्विविधम्, आत्मभूता-ऽनात्मभूतभेदात्, उष्ण-दण्डवत् । तदेतल्लक्षणं द्विविधम्-आत्मभूतमनात्मभूतं चेति । तत्र आत्मभूतमग्नेरौष्ण्यम्, अनात्मभूतं देवदत्तस्य दण्डः ।" इति अकलङ्कदेवविरचिते तत्त्वार्थराजवार्तिके २।९, पृ.११९ ।।
पृ.२ पं.५ । मतुप्रत्ययो... । “नित्ययोगे मतुविधानम्" इति तत्त्वार्थराजवार्तिके ५।२३। “नित्ययोगे मतुप् विहितः" इति सिद्धसेनगणिविरचितायां तत्त्वार्थवृत्तौ ५।२३। “नित्ययोगे मतोर्विधानात्.. स्पर्शादिसामान्यस्य नित्ययोगात् पुद्गलेषु' इति तत्त्वार्थश्लोकवार्तिके ५।२३। .
पृ.२ पं.५ । पूरणाद् गलनाच्च... । तुलना- “पूरणाद् गलनाच्च पुद्गलाः संहन्यमानत्वाद् विसंहतिमत्त्वाच्च [५।१, पृ.३१६] ... पूरणाद् गलनाच्च पुद्गलाः परमाणुप्रभृतयोऽनन्तानन्तप्रदेशस्कन्धपर्यवसानाः" इति सिद्धसेनगणिविरचितायां तत्त्वार्थवृत्तौ ५।४, पृ.३२५
“पूरण-गलनान्वर्थसंज्ञत्वात् पुद्गला: ।२४।... भेदात् संघातात् भेदसंघाताभ्यां च पूर्यन्ते गलन्ते चेति पूरणगलनात्मिकां क्रियामन्तर्भाव्य पुद्गलशब्दोऽन्वर्थः पृषोदरादिषु निपातितः” इति तत्त्वार्थराजवार्तिके, ५।१, पृ.४३४ ॥
___ “पूरण-गलनधर्माणः पुद्गलाः परमाण्वादयोऽनन्ताणुकस्कन्धपर्यन्ताः । ते हि कुतश्चिद् द्रव्याद् गलन्ति वियुज्यन्ते किञ्चित्तु द्रव्यं तत्संयोगतः पूरयन्तीति भावः ।" इति मलधारिहेमचन्द्रसूरिविरचितायाम् अनुयोगद्वारसूत्रवृत्तौ पृ.१८४ । ।
पृ.२ पं.१४ । अथ मूर्तिमाह- । तुलना- “रूपं मूर्तिः, मूर्त्याश्रयाश्च स्पर्शादय इति" इति तत्त्वार्थभाष्ये ५।३।, “किं पुना रूपं नामेत्यत आह- रूपं मूर्तिः । मूर्तिर्हि रूपादिशब्दाभिधेया, सा च रूपादिसंस्थानपरिणामा, नासर्वगतद्रव्यपरिमाणलक्षणा, व्यभिचारदर्शनात् । सर्वतः परिमितत्वे लोकस्य आत्मनोऽपि मूर्तिमत्त्वप्रसङ्गः काणभुजानाम् । परिमितत्वं चावश्यमभ्युपेयं विशिष्टसंस्थानत्वादिभिर्लोकस्य। अतो रूपमेवाव्यभिचारित्वान्मूर्तिरुच्यते । अन्येऽभिदधति-रूपशब्दो नीलादिवर्णाभिधायी समस्ति, अस्ति च दीर्घादिसंस्थानप्रतिपादनपरः । तद् यः संस्थानप्रतिपत्तिमाविष्करोति रूपशब्दस्तमुररीकृत्यावोचदाचार्यः ‘रूपं मूर्तिः' इति । एवंविधमूर्त्याश्रिताश्च स्पर्शादयः किल सर्वदा न कदाचिदसंस्थाना भवितुमर्हन्ति, अन्यथा वान्ध्येय-व्योमकुसुम-मण्डूकशिखण्डकल्पाः स्युरिति । अत्र पक्षे धर्मा-ऽधर्म-सिद्धसंस्थानैरनेकान्तः । तस्माद् रूपमेव मूर्तिरस्तु । एवं तर्हि गुणमात्रं मूर्तिशब्दस्य विषयः प्रसक्तः, न च रूपमेव मूर्तिरिति, उच्यते- द्रव्यास्तिकनयावष्टम्भात् सकलमिदं निरूप्यते। .... सैव हि मूर्तिर्द्रव्यस्वभावा चक्षुर्ग्रहणमासाद्य रूपमिति व्यपदिश्यते । अत एव पुनराह सहचराव्यभिचारप्रदिदर्शयिषयामूर्त्याश्रयाश्च स्पर्शादय इति । न खलु मूर्ति स्पर्शादयो व्यभिचरन्ति, सहचरितत्वात् । यत्र रूपपरिणामस्तत्रावश्यन्तया स्पर्श-रस-गन्धैरपि भाव्यम् । अतः सहचरमेतच्चतुष्टयम्, अतः परमाणावपि
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org