Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 293
________________ २२८ द्वितीयं परिशिष्टम् त इमे चक्षुरादयः कस्याकराः ? स्वस्या जातेः, सभागहेतुत्वात् ।..... ये पुनरिमे अष्टादश धातव उक्तास्तेषां कति सनिदर्शनाः ? कत्यनिदर्शनाः ? सनिदर्शन एकोऽत्र । रूपम्, स हि शक्यते निदर्शयितुम्- इदमिह, इदममुत्रेति । उक्तं भवति- अनिदर्शनाः शेषा इति । कति सप्रतिघाः ? कत्यप्रतिघाः ? सप्रतिघा दश, रूपिणः, य एते रूपस्कन्धसंगृहीता दश धातव उक्तास्ते सप्रतिघाः । प्रतिघो नाम प्रतिघातः । स च त्रिविधः आवरण-विषय-आलम्बनप्रतिघातः । १ तत्रावरणप्रतिघातः स्वदेशे परस्योत्पत्तिप्रतिबन्धः, हस्तो हस्तेनाहतः उपले वा । उपलोऽपि तयोः । २ विषयप्रतिघातः चक्षुरादीनां विषयिणां रूपादिषु विषयेषु ।... ३ आलम्बनप्रतिघातश्चित्त-चैत्तानां स्वेषु आलम्बनेषु । क पुनर्विषयालम्बनयोर्विशेषः ? यस्मिन् यस्य कारित्रं स तस्य विषयः । यच्चित्त-चैत्तैर्गृह्यते तदालम्बनम् । कुतः पुनः स्वस्मिन् विषये प्रवर्तमानमालम्बने वा प्रतिहन्यते इत्युच्यते ? तस्मात् प्रेरणाप्रवृत्तेः । निपातो वात्र प्रतिघातो या स्वविषये प्रवृत्तिः। तदिहावरणप्रतिघातेन दशानां सप्रतिघत्वं वेदितव्यम् । ... 'यत्रोत्पित्सोर्मनसः प्रतिघातः शक्यतेऽन्यैः कर्तुम् । तत् सप्रतिघं ज्ञेयं विपर्ययादप्रतिघमिष्टम् ॥' इति भदन्तकुमारलातः । उक्ताः सप्रतिघा अप्रतिघाश्च ।" इति वसुबन्धुविरचिते अभिधर्मकोशभाष्ये प्रथमे कोशस्थाने । 'अट्ठारस धातुयो- चक्खुधातु, रूपधातु, चक्खुविज्ञाणधातु, सोतधातु, सद्दधातु, सोतविज्ञाणधातु, घाणधातु, गन्धधातु, गन्धविज्ञाणधातु, जीव्हाधातु, रसधातु, जीव्हाविज्ञाणधातु, कायधातु, फोहब्बधातु, कायविज्ञाणधातु, मनोधातु, धम्मधातु, मनोविज्ञाणधातु ।" इति विभङ्गप्रकरणे पृ.८७ । पृ.१८ पं.१८ । अणवः स्कन्धाश्च.... । तुलना- “अणव: स्कन्धाश्च [तत्त्वार्थ. ५।२५], अण्यन्ते इत्यणवः अस्मदादीन्द्रियव्यापारातीतत्वात् केवलसंशब्दनसमधिगम्याः सौक्ष्म्यात् स्थौल्याद् ग्रहणादानादिव्यापारसमर्थाः प्रायः स्कन्धाः संघाता इति । चशब्दः समुच्चेता, समस्तपुद्गला एव द्विविधाः परमाणवः स्कन्धाश्चेति ।" इति सिद्धसेनगणिविरचितायां तत्त्वार्थवृत्तौ पृ.३६५ ॥ “अणव: स्कन्धाश्च [तत्त्वार्थ. ५।२५], प्रदेशमात्रभाविस्पर्शादिप्रसवसामर्थ्येन अण्यन्ते शब्द्यन्त इत्यणवः ।१। प्रदेशमात्रभाविभिः स्पर्शादिभिः गुणैः सततं परिणमन्त इत्येवम् अण्यन्ते शब्द्यन्ते ये ते अणवः । सौक्षम्यादात्मादय आत्ममध्या आत्मान्ताश्च । उक्तं च अत्तादि अत्तमज्झं अत्ततं णेव इंदिए गेज्झं । जं दव्वं अविभागी तं परमाणु विजाणीहि ॥ [ ] स्थौल्याद् ग्रहण-निक्षेपणादिव्यापारास्कन्दनात् स्कन्धाः ।२। स्थौल्यभावेन ग्रहणनिक्षेपणादिव्यापारास्कन्दनात् स्कन्धा इति संज्ञायन्ते । ...... उभयत्र जात्यपेक्षं बहुवचनम् ।३। अनन्तभेदा १. “स्वस्या जातेः । किम् ? आकरा इति प्रकृतम् । सभागहेतुत्वात् । पूर्वोत्पन्नं चक्षुः पश्चिमस्य सभागहेतुरित्याकरो धातुः । यतो हि सुवर्णाद्युत्पत्तिस्ते तेषामाकराः।" इति यशोमित्रविरचितायाम् अभिधर्मकोशभाष्यव्याख्यायां स्फुटार्थायाम् । २. "यत्रैक सप्रतिघं वस्तु तत्र द्वितीयस्योत्पत्तिर्न भवति । यथा हस्तो हस्तेनाहतः प्रतिहन्यते उपले वा । हस्तो हस्तस्थाने उपलस्थाने वा नोत्पद्यते । उपलोऽपि तयोः, हस्तोपलयोः स्थाने उत्पलोऽपि नोत्पद्येत । ...... कारित्रं पुरुषकारः । ..... तस्मात् परेणाप्रवृत्तेरिति, यो हि लोके यतः परेण न प्रवर्तते स तत्र प्रतिहन्यते काष्ठे कुड्ये वा । तस्मात् चक्षुरादि विषयात् परेण न कारित्रं करोति, विषय एव तु करोति । तस्मात् तत्र प्रतिहन्यत इति उच्यते ।" इति यशोमित्रविरचितायाम् अभिधर्मकोशभाष्यव्याख्यायां स्फुटार्थायाम् । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318