Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad
View full book text
________________
द्वितीयं परिशिष्टम् अपि पुद्गला अणुजात्या स्कन्धजात्या च द्वैविध्यमापद्यमानाः सर्वे गृह्यन्त इति तज्जात्याधारानन्तभेदसंसूचनार्थं बहुवचनं क्रियते ।
-
अणुस्कन्धा इत्यस्तु लघुत्वादिति चेत्, न, उभयसूत्रसम्बन्धार्थत्वाद् भेदकरणस्य ॥४॥ स्यान्मतम् 'अणवः स्कन्धा अणुस्कन्धाः' इति वृत्तिकरणमिह युक्तं लघुत्वादिभिः । तन्न, किं कारणम् ? उभयसूत्रसम्बन्धार्थत्वात् भेदकरणस्य, स्पर्श-रस- गन्ध-वर्णवन्तोऽणवः, शब्द- बन्ध-सौक्ष्म्य- स्थौल्य संस्थानभेद-तम-श्छाया -ऽऽतपोद्योतवन्तश्च स्कन्धा इति । वृत्तौ पुनः सत्यां समुदायस्यार्थवत्त्वात् अवयवार्थाभावात् भेदेनाभिसम्बन्धः कर्तुं न शक्यः ' इति तत्त्वार्थराजवार्तिके ५/२५, पृ. ४९१ ॥
""
" अणवः स्कन्धाश्च [ तत्त्वार्थ. ५/२५], प्रदेशमात्रभाविस्पर्शादिपर्यायप्रसवसामर्थ्येन अण्यन्ते शब्द्यन्ते इत्यणवः सौक्ष्म्यादात्मादय आत्ममध्या आत्मान्ताश्च । तथा चोक्तम्'आत्मादिमात्ममध्यं च तथात्मान्तमतीन्द्रियम् ।
२२९
अविभागं विजानीयात् परमाणुमनंशकम् ॥' [
स्थौल्यात् ग्रहण-निक्षेपणादिव्यापारास्कन्दनात् स्कन्धाः । उभयत्र जात्यपेक्षं बहुवचनम् । अणुजात्याधाराणां स्कन्धजात्याधाराणां चावान्तरतज्जातिभेदानामनन्तत्वात् । ‘अणुस्कन्धाः' इत्यस्तु लघुत्वादिति चेत्, न, उभयसूत्रसम्बन्धार्थत्वाद् भेदकरणस्य । स्पर्श रस - गन्ध-वर्णवन्तोऽणवः शब्द-बन्ध-सौक्ष्म्यस्थौल्य-संस्थान-भेद-तम-श्छाया - ऽऽतपोद्द्योतवन्तश्च स्कन्धा इति । वृत्तौ पुनः समुदायस्यार्थवत्त्वादवयवार्थाभावात् भेदेनाभिसम्बन्धः कर्तुमशक्यः । " इति तत्त्वार्थश्लोकवार्तिके ५/२५, पृ.४३० ।
पृ.२४ पं.१० । एकगुणस्निग्धस्य.... । तुलना-“स्निग्धरूक्षत्वाद् बन्धः [तत्त्वार्थ. ५।३२], स्निग्धरूक्षयोः पुद्गलयोः स्पृष्टयोर्बन्धो भवतीति । अत्राह किमेष एकान्त इति ? अत्रोच्यते- न जघन्यगुणानाम् [तत्त्वार्थ. ५/३३ ], जघन्यगुणस्निग्धानां जघन्यगुणरूक्षाणां च परस्परेण बन्धो न भवति । अत्राह-उक्तं भवता जघन्यगुणवर्जानां [ स्निग्धानां ] रूक्षेण रूक्षाणां च स्निग्धेन सह बन्धो भवतीति । अथ तुल्यगुणयोः किमत्यन्तप्रतिषेध इति ? अत्रोच्यते- 'न जघन्यगुणानाम्' इत्यधिकृत्येदमुच्यते- गुणसाम्ये सदृशानाम् [तत्त्वार्थ. ५/३४], गुणसाम्ये सति सदृशानां बन्धो न भवति । तद्यथा - तुल्यगुणस्निग्धस्य तुल्यगुणस्निग्धेन तुल्यगुणरूक्षस्य तुल्यगुणरूक्षेणेति । अत्राह - सदृशग्रहणं किमपेक्षत इति ? अत्रोच्यतेगुणवैषम्ये सदृशानां बन्धो भवतीति । अत्राह- किमविशेषेण गुणवैषम्ये सदृशानां बन्धो भवतीति ? अत्रोच्यते-द्व्यधिकादिगुणानां तु [तत्त्वार्थ. ५/३५], द्व्यधिकादिगुणानां तु सदृशानां बन्धो भवति । तद्यथास्निग्धस्य द्विगुणाधिकस्निग्धेन, द्विगुणाद्यधिकस्निग्धस्य एकगुणस्निग्धेन, रूक्षस्यापि द्विगुणाद्यधिकरूक्षेण, द्विगुणाद्यधिकरूक्षस्य एकगुणरूक्षेण । एकादिगुणाधिकयोस्तु सदृशयोर्बन्धों न भवति । अत्र तुशब्दो व्यावृत्तिविशेषणार्थः, प्रतिषेधं व्यावर्तयति बन्धं च विशेषयति ।" इति उमास्वातिविरचिते स्वोपज्ञे तत्त्वार्थभाष्ये ५/३२-३५१
पृ. २५ पं. १ । ननु स्निग्ध.... । तुलना- “अस्ति च स्नेहादिगुणानां प्रकर्षापकर्षभेदः, तद्यथाजलादजाक्षीरं स्निग्धम्, अजाक्षीराद् गोपयः, गोपयसो महिषीपयः, ततः करभीपयः इत्युत्तरोत्तरस्नेहाधिकत्वम् । एषामेव पूर्वं पूर्वं रूक्षम्” इति सिद्धसेनगणिविरचितायां तत्त्वार्थवृत्तौ ५।३३, पृ.४२१ । - Sजा - गो-महिष्युष्ट्रीक्षीर- घृतेषु
'तोया-5
पांशु - कणिका - शर्करादिषु
Jain Education International 2010_05
For Private & Personal Use Only
च
www.jainelibrary.org
Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318