Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad
View full book text
________________
द्वितीयं परिशिष्टम्
२३१ दर्शनादिति चेत्, सादृश्यादि परमेवं किं न भवेत्, तथाप्रतीतेरविशेषात् ? ततो द्रव्यपर्याय एव क्रिया । गुणादीनां क्रियात्वप्रसङ्ग इति चेत्, न, ततो विशेषलक्षणसद्भावात् । द्रव्यस्य हि देशान्तरप्राप्तिहेतुः पर्यायः क्रिया, न सर्वः । सर्वत्र सर्वदा कस्मान्न भवतीति चेत्, न, उभयनिमित्तापेक्षत्वात् क्रियायाः तद्भाव एव भावात् पर्यायान्तरवत्' इति तत्त्वार्थश्लोकवार्तिके ५।७, पृ.३९७-३९८ ।
पृ.१३४ पं.१० । क्रिया-क्रियावतोः .... । तुलना - “सान्यैव तद्वतो येषां तेषां तवयशून्यता । क्रिया-क्रियावतोर्भेदेनाप्रतीतेः कदाचन ॥ क्रिया- क्रियाश्रयौ भिन्नौ विभिन्नप्रत्ययत्वतः । सह्य-विन्ध्यवदित्येतद् विभेदैकान्तसाधनम् । धर्मिग्राहिप्रमाणेन हेतो धननिर्णयात् । कथंचिद् भिन्नयोस्तेन तयोर्ग्रहणतः स्फुटम् ।। विभिन्नप्रत्ययत्वं च सर्वथा यदि गद्यते । तत एव तदा तस्यासिद्धत्वं प्रतिवादिनः ॥ कथंचित्तु न तत् सिद्धं वादिनामित्यसाधनम् । विरुद्धं वा भवेदिष्टविपरीतप्रसाधनात् ॥ साध्यसाधनवैकल्यं दृष्टान्तस्यापि दृश्यताम् । सत्त्वेनाभिन्नयोरेव प्रतीतेः सह्यविन्ध्ययोः ॥ विरुद्धधर्मताध्यासादित्यादेरप्यहेतुता । प्रोक्तैतेन प्रपत्तव्या सर्वथाऽप्यविशेषतः ॥ क्रिया क्रियावतोऽनन्याऽनन्यदेशत्वतः क्रिया-तत्स्वरूपवदित्येके तदप्यज्ञानचेष्टितम् ॥ लौकिकानन्यदेशत्वं हेतुश्चेद् व्यभिचारिता । वातातपादिभिस्तस्यानन्यदेशैर्विभेदिभिः ।। शास्त्रीयानन्यदेशत्वं मन्यते साधनं यदि । न सिद्धमन्यदेशत्वप्रतीतेरुभयोस्तयोः ॥ . तद्वद्देशा क्रिया तद्वान् स्वकीयाश्रयदेशकः । प्रतीयते यदाऽनन्यदेशत्वं कथमेतयोः । सर्वथाऽनन्यदेशत्वमसिद्धं प्रतिवादिनः । कथंचिद्वादिनस्तत् स्याद् विरुद्धं चेष्टहानिकृत् ॥ धर्मिग्राहिप्रमाणेन बाधा पक्षस्य पूर्ववत् । साधनस्य च विज्ञेया तैरेवातीतकालता ॥६०॥" इति तत्त्वार्थश्लोकवार्तिके ५।७, पृ.४००-४०१ ॥ पृ.१३७ पं.१-१६ । ननु गतिशून्यत्वाद् ..... । तुलना“गति-स्थित्यवगाहानां परत्र न निबन्धनम् । धर्मादीनि क्रियाशून्यस्वभावत्वात् खपुष्पवत् ।।१२।। क्रियावत्त्वप्रसङ्गो वा तेषां वायु-धरा-ऽम्बुवत् । इत्यचोद्यं बलाधानमात्रत्वाद् गमनादिषु ॥१३॥ धर्मादीनि स्वशक्त्यैव गत्यादिपरिणामिनाम् । यथेन्द्रियं बलाधानमात्रं विषयसनिधौ ॥१४।। पुंसः स्वयं समर्थस्य तत्र सिद्धेर्न चान्यथा । तथैव द्रव्यसामर्थ्यानिष्क्रियाणामपि स्वयम् ॥१५|| धर्मादीनां परत्रास्तु क्रियाकारणमात्रता । न चैवमात्मनः कायक्रियाहेतुत्वमापतेत् ॥१६॥ सर्वथा निष्क्रियस्यापि स्वयं मानविरोधतः । आत्मा हि प्रेरको हेतुरिष्टः कायादिकर्मणि ।।१७।। तृणादिकर्मणीवाम्भः पवनादिश्च सक्रियः । वीर्यान्तरायविज्ञानावरणच्छेदभेदतः ॥१८॥ सक्रियस्यैव जीवस्य ततोऽङ्गे कर्महेतुता ॥"
इति तत्त्वार्थश्लोकवार्तिके ५७, पृ.३९९-४०० ॥ पृ.१५५ पं.७ । एकशब्दः स....... । तुलना- “आ आकाशादेकद्रव्यणितत्त्वार्थ.५।६].... एकशब्दः संख्यावचनः, तत्सम्बन्धाद् द्रव्यस्यैकवचनप्रसङ्ग इति चेत्, न, धर्माद्यपेक्षया बहुत्वसिद्धेः । एकं च [तद्] द्रव्यं च तदेकद्रव्यम्, एकद्रव्यं च [एकद्रव्यं च] एकद्रव्यं च एकद्रव्याणीति धर्माद्यपेक्षया बहुत्वं न विरुध्यते । “एकै कम्' अस्तु लघुत्वात्, प्रसिद्धत्वाद् द्रव्यगतिरिति चेत्, न वा,
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318