Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad
View full book text
________________
तृतीयं परिशिष्टम्
२३५ चिदभेदान्यथानुपपत्त्या द्रव्यावस्थायां पर्याया अपि कथंचित् सन्त एवेति कथमिवासतः कस्यचिदप्युत्पादो भवतीति । सम्प्रत्युपसंहरति- तत् तस्मादणूनां सत्त्वोपचयाभावेऽपि सत्त्वाधिक्याभावेऽपि स्थूलता स्कन्धपरिणाम उपपद्यते घटत इति । स्यादेवम्पटाद्यवस्थायामप्यणवः परस्परं विसकलितरूपा एव अनेकवृत्तेरेकस्य कस्यचिदप्यभावादित्यत आह- न च नैवैते परमाणवस्तदानीम)पि स्थूलपरिणामकालेऽपि अनेकत्वपरिणतय
एव। पृ.२९ पं.१४ 47A भवति (भेदोद्भवः समुच्चयार्थः । एतदुक्तं भवति) यथा हि पृ.२९ पं.२० 47B उत्तरयति ( ... न वास्तवः किंत्वविद्याशिल्पकल्पित इति..) रूपादिभेदोऽपि पृ.३८ पं.६ 58B सर्वथाप्यवयवावयविनोर्भेदाभ्युपगमे (एकदेशे समान एवाकाशे स्थितिरवस्थानं न
स्यात् । न खलु मूर्तानां परैरेकदेशावस्थितिरभ्युपगम्यते । अत एकदेशावस्थानादेवावयवावयविनोर्मूत्तयोः परस्परं नैकान्तेन भेद एवेति । ननु परमाणव एव मूर्ताः, न पुनस्तदारब्धं द्रव्यमिति । तन्न । यस्मादमूर्तत्वे द्रव्यस्याभ्युपगम्यमाने नभस्वव्योमव [?] द्रव्यस्येन्द्रियाग्रहश्चक्षुरा(?)वाकाशे स्वभावतः समुत्पन्नौ तयोः को दोष इति । नन्वेवं कथंचिदभेद एव किं नाभ्युपगम्यते ? किमिति स्वभावतः समुत्पादावलम्बनेन दैष्टिकता समाश्रीयते ? कथंचिदभेदाभ्युपगमे हि सर्वमपि निर्विवादं सिध्यतीति । संप्रति दोषान्तरदानाय भेदपक्षमभ्युपगम्य परं पृच्छति- का वा तेषु तद्वृत्तिरिति । वाशब्दो दूषणान्तरत्वावद्योतकः)
तेषु परमाणुलक्षणावयवेषु पृ.४० पं.४, 62B वृत्तिर्न घटत एव (परमतमाशंकते- अनंशस्य स्वावयवेभ्योऽन्यैरंशै रहितस्य
अवयविनोंऽशानंशकल्पनाया अंशेन वर्तते सर्वात्मना वेति विकल्पनाया अयोगोऽघटनमिति
चेदिति यदि मन्यसे त्वमिति एवं मन्यते ननु) यस्यांशेन सर्वात्मनापि च पृ.४० पं.१५, 63B कर्त्तव्यः । (अत्र परः प्रत्यवतिष्ठते - यदि भिन्नस्य वृत्तिर्देशकात्या॑भ्यामेव भवति
कथं केन प्रकारेण तद्देव(वं?) व्यवस्थायामणुसंयोगः स्यात् पृच्छ...) अपि च, पृ.४६ पं.१९ 71B यत् किञ्चिदेतत् (न केवलमचेतनासर्वगतापरमाणुद्रव्यत्वान्मूर्तकरणत्वात्तथा मूर्तत्वेन
स्पर्शवत्त्वाच्चेति । परे हि मनः स्पर्शवन्नाद्रियन्ते इति हेत्वसिद्धताभयेन मूर्त्तत्वं स्पर्शवत्त्वस्यैव साधकमुपादायि । तत्र तावत् मनः स्पर्शवत्, अखिलस्यापि मूर्तराशेः स्पर्शवत्त्वाव्यभिचारात्,
मनस्तु पक्षीकृतमेवेति नाव्याप्तिः । न च.......) । अथ मनसः स्पर्शवत्त्वमाहपृ.४७पं.१९ 72B ०दुपाधित्वम् । (73A दात्मवदिति प्रमाणबाधितं मनसः स्पर्शवत्त्वं कथं
पौद्गलिकत्वमुपकल्पयेदित्यत आह- न चेति । शरीरान्यत्वे सर्वविषयज्ञानहेतुरित्येव मनो न चास्पर्शवदिति सम्बन्धः । कुतः ? द्रव्यत्वे सति सकृत् सर्वैर्मूत्तैः सम्बन्धमर्हतीति सकृत्सर्वमूर्त्ताभिसम्बन्धार्हः, तस्य भावस्तत्त्वम्, तस्मादात्माऽस्पर्शवान् स्पर्शरहितः सिद्धः, गुण-कर्म-सामान्यादिभिर्व्यभिचारपरिहारार्थं द्रव्यत्वविशेषणमिति, शरीरान्यत्वे
सर्वविषयज्ञानोत्पादकत्वादिति हेतुप्रयोजकः आत्मनि द्रव्यत्वे सति सर्वमूर्ताभिसम्बन्धार्हत्वेन १. पूर्वम् ‘एवेति' लिखितमासीत्, पश्चात् संशोध्य ‘एव' इति कृतम् । २. न च शरीरान्यत्वे सर्वविषयज्ञानहेतुरित्येवास्पर्शवत् - दि० ॥ ३. द्रव्यत्वे सति सकृत् सर्वमूर्त्ताभिसम्बन्धार्हत्वादात्माऽस्पर्शवान् -टि० ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318