Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 290
________________ द्वितीयं परिशिष्टम् २२५ शील-भावनादिलक्षण आचार्यादिपुरुषप्रयोगनिमित्तत्वात् प्रयोगजः । अचेतनस्य मृदादेः घटसंस्थानादिपरिणामः कुलालादिपुरुषप्रयोगनिमित्तत्वात् प्रयोगजः । इन्द्रधनुरादिनानापरिणामो वैनसिकः । तथा धर्मादेरपि परिणामो योज्यः ।" इति तत्त्वार्थराजवार्तिके ५।२२, पृ.४७८ । “कः पुनः परिणामः ? द्रव्यस्य स्वजात्यपरित्यागेन प्रयोग-विस्रसालक्षणो विकारः परिणामः । तत्र विस्रसापरिणामोऽनादिरादिमांश्च । चेतनद्रव्यस्य तावत् स्वजातेश्चेतनद्रव्यत्वाख्याया अपरित्यागेन जीवत्वभव्यत्वा-ऽभव्यत्वादिरनादिः, औपशमिकादिः पूर्वाकारपरित्यागाज(ज?)हद्वृत्तिरादिमान्, स तु कर्मोपशमाद्यपेक्षत्वादपौरुषेयत्वाद् वैनसिकः । अचेतनद्रव्यस्य तु लोकसंस्थान-मन्दराकारादिरनादिः, इन्द्रधनुरादिरादिमान् पुरुषप्रयत्नानपेक्षत्वादेव वैनसिकः । प्रयोगजः पुनर्दान-शील-भावनादिश्चेतनस्य आचार्योपदेशलक्षणपुरुषप्रयत्नापेक्षत्वात्, घटसंस्थानादिरचेतनस्य, कुलालादिपुरुषप्रयोगापेक्षत्वात् । धर्मास्तिकायादिद्रव्यस्य तु वैससिकोऽसंख्येयप्रदेशित्वादिरनादिः परिणामः, प्रतिनियतगत्युपग्रहहेतुत्वादिरादिमान् । प्रयोगजो यन्त्रादिगत्युपग्रहहेतुत्वादिः पुरुषप्रयोगापेक्षत्वात्" इति तत्त्वार्थश्लोकवार्तिके ५।२२, पृ.४१४ । __ पृ.११ पं.१० । परिणामिनो... । तुलना- “व्यवस्थिताव्यवस्थितदोषात् परिणामाभाव इति चेत्, न, अनेकान्तात् । न हि वयमङ्कुरे बीजं व्यवस्थितमेव ब्रूमहे, विरोधादङ्कुराभावप्रसङ्गात् । नाप्यव्यवस्थितमेव, अङ्कुरस्य बीजपरिणामत्वाभावप्रसङ्गात्, पदार्थान्तरपरिणामत्वाभाववत् । किं तर्हि ? स्याद् बीजं व्यवस्थितं स्यादव्यवस्थितमङ्कुरे व्याकुर्महे । न चैकान्तपक्षभावी दोषोऽनेकान्तेष्वस्तीत्युक्तप्रायम् । स्याद्वादिनां हि बीजशरीरादे(दि?)रेव वनस्पतिकायिको बीजांकुरादिः स्वशरीरपरिणामभागभिमतः यथा कललशरीरे मनुष्यजीवोऽर्बुदादिस्वशरीरपरिणामभृदिति, न पुनरन्यथा सः ।" इति तत्त्वार्थश्लोकवार्तिके ५।२२ पृ.४१५।। ___ “व्यवस्थिताव्यवस्थितदोषादिति चेत्, न, अनेकान्तात् ।१४। स्यान्मतम्-बीजेऽङ्कुरत्वेन परिणते अङ्कुरे बीजं व्यवस्थितं वा स्यात्, अव्यवस्थितं वा ? यदि व्यवस्थितम्, बीजस्य व्यवस्थानात् विरोधात् अङ्कुराभावः । अथाव्यवस्थितम्, न तर्हि बीजमङ्कुरत्वेन परिणतम् । तस्मादुभयत्र दोषान्नास्ति परिणाम इति । तन्न । किं कारणम् ? अनेकान्तात् ..... ।” इति तत्त्वार्थराजवार्तिके ५।२२, पृ.४७८४७९ । पृ.११ पं.१५ । स्यान्मतम्... । तुलना - “वृद्ध्यभावप्रसङ्ग इति चेत्, न, अन्यहेतुत्वात्। स्यादेतत्- नास्ति परिणामः, कुतः ? वृद्ध्यभावप्रसङ्गात् । यदि बीजमङ्कुरत्वेन परिणमेत, बीजमात्र एवाङ्कुरः स्यात्, पयःपरिणामदधिवत् । ततो वृद्ध्यभावः । उक्तं च 'किंचान्यद् यदि तद् बीजं गच्छेदङ्कुरतामिह । विवृद्धिरङ्कुरस्य स्यात् कथं बीजादपुष्कलात् ?।।' भौमोदकरससम्बन्धाद् वृद्धिरिति चेत्, न, बीजपरिणामाभावप्रसङ्गात् । उक्तं च'अथेष्टं तै रसै मैरौदकैश्च विवर्धते । नन्वेवं सति बीजस्य परिणामो न युज्यते ॥' [ ] भौमोदकरसद्रव्यान्तरसंचयाद् वृद्धिरिति चेत्, न, द्रव्यान्तरसंयोगेऽपि वृद्ध्यभावात् । यदि भौमोदकरसद्रव्यान्तराणि संयोगवृद्ध्या वर्धन्ते, ननु वृद्ध्यभावः जतुसंयोगे काष्ठवृद्ध्यभाववत् । उक्तं च Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318