Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 289
________________ २२४ द्वितीयं परिशिष्टम् न पुनः सर्वथा एतद्विलक्षणा इति नेहोदाहृताः । गन्ध्यते आघ्रायते इति गन्धः, तस्य नाम गन्धनाम, स च द्विविधः - सुरभिर्दुरभिश्च । तत्र सौमुख्यकृत् सुरभिः, वैमुख्यकृद् दुरभिः । अत्रापि उभयसंयोगजः पृथग् नोक्तः, एतत्संसर्गजत्वादेव भेदाविवक्षणात् । रस्यते आस्वाद्यत इति रसः, तस्य नाम रसनाम, स च तिक्तकटुकषाया -ऽम्ल-: - मधुरभेदात् पञ्चविधः, तत्र श्लेष्मादिदोषहन्ता निम्बाद्याश्रितस्तिक्तो रसः । तथा च भिषक्शास्त्रम् 'श्लेष्माणमरुचिं पित्तं तृषं कुष्ठं विषं ज्वरम् । 1 हन्यात् तितो रसो बुद्धेः कर्ता मात्रोपसेवितः ॥ १ ॥ ' [ गलामयादिप्रशमनो मरिच - नागराद्याश्रितः कटुः । उक्तं च'कटुर्गलामयं शोफं हन्ति युक्त्योपसेवितः । ] दीपनः पाचको रुच्यो बृंहणोऽतिकफापहः || १ || ' [ रक्तदोषाद्यपहर्ता बिभीतका -ऽऽमलक-कपित्थाद्याश्रितः कषायः । आह च 'रक्तदोषं कफं पित्तं कषायो हन्ति सेवितः । रूक्षः शीतो गुरुग्राही रोपणश्च स्वरूपतः ॥ १॥ [ अग्निदीपनादिकृदम्लीकाद्याश्रितोऽम्लः । पठ्यते च - 'अम्लोऽग्निदीप्तिकृत् स्निग्धः शोफ-पित्त-कफापहः । क्लेदनः पाचनो रुच्यो मूढवातानुलोमकः ||१|| [ पित्तादिशमकः खण्ड-शर्कराद्याश्रितो मधुरः । तथा चोक्तम्'पित्तं वातं कफं हन्ति धातुवृद्धिकरो गुरुः । जीवनः केशकृद् बाल-वृद्ध-क्षीणौजसां हितः || १ || ' [ स्थानान्तरे स्तम्भिताहारबन्धविध्वंसकर्ता सिन्धुलवणाद्याश्रितो लवणोऽपि रसः पठ्यते । स चेह नोदाहृतो मधुरादिसंसर्गजत्वात् तदभेदेन विवक्षणात् । सम्भाव्यते च तत्र माधुर्यादिसंसर्गः, सर्वरसानां लवणप्रक्षेप एव स्वादुत्वप्रतिपत्तेरित्यलं विस्तरेण । ] इत्यादि । स्पृश्यत इति स्पर्श: कर्कशादिरष्टविधः । तत्र स्तब्धताकारणं दृषदादिगतः कर्कशः । सन्नतिकारणं तिनिशलतादिगतो मृदुः । अधःपतनहेतुरयोगोलकादिगतो गुरुः । प्रायस्तिर्यगूर्ध्वाधोगमनहेतुरर्कतूलादिनिश्रितो लघुः । देहस्तम्भादिहेतुः प्रालेयाद्याश्रितः शीतः । आहारपाकादिकारणं वह्न्याद्यनुगत उष्णः । पुद्गलद्रव्याणां मिथः संयुज्यमानानां बन्धनिबन्धनं तैलादिस्थितः स्निग्धः । तेषामेवाऽबन्धनिबन्धनं भस्माद्याधारो रूक्षः । एतत्संसर्गजास्तु नोक्ताः, एष्वेवान्तर्भावादिति ॥” इति मलधारिश्रीहेमचन्द्रसूरिविरचितायाम् अनुयोगद्वारसूत्रवृत्तौ पृ.२७०-२७१ । Jain Education International 2010_05. 1 पृ. ९ पं.८ । परिणाम:.... । तुलना- “ द्रव्यस्य स्वजात्यपरित्यागेन प्रयोग - विस्रसालक्षणो विकारः परिणामः । द्रव्यस्य चेतनस्येतरस्य वा द्रव्यार्थिकनयस्य अविवक्षातो न्यग्भूतां स्वां द्रव्यजातिमजहतः पर्यायार्थिकनयार्पणात् प्राधान्यं बिभ्रता केनचित् पर्यायेण प्रादुर्भावः पूर्वपर्यायनिवृत्तिपूर्वको विकारः प्रयोगविस्रसालक्षणः परिणाम इति प्रतिपत्तव्यः । तत्र प्रयोगः पुद्गलविकारः, तदनपेक्षा प्रक्रिया विसा । तत्र परिणामो द्विविधः - अनादिरादिमांश्च । अनादिर्लोकसंस्थान - मन्दराकारादिः । आदिमान् प्रयोगजो वैस्रसिकश्च । तत्र चेतनस्य द्रव्यस्योपशमिकादिभावः कर्मोपशमाद्यपेक्षोऽपौरुषेयत्वाद् वैनसिक इत्युच्यते । ज्ञा (दा?)न For Private & Personal Use Only ] www.jainelibrary.org

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318