Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 287
________________ २२२ अथ द्वितीयं परिशिष्टम् । विशिष्टानि कतिपयानि टिप्पणानि [अस्मिन् परिशिष्टे द्रव्यालङ्कारटीकायां केषाञ्चित् पाठानां तुलनाद्यात्मकानि कानिचित् टिप्पणानि उपन्यस्यन्ते] पृ.२ पं.२ । लक्षणं च... । तुलना-“तल्लक्षणं द्विविधम्, आत्मभूता-ऽनात्मभूतभेदात्, उष्ण-दण्डवत् । तदेतल्लक्षणं द्विविधम्-आत्मभूतमनात्मभूतं चेति । तत्र आत्मभूतमग्नेरौष्ण्यम्, अनात्मभूतं देवदत्तस्य दण्डः ।" इति अकलङ्कदेवविरचिते तत्त्वार्थराजवार्तिके २।९, पृ.११९ ।। पृ.२ पं.५ । मतुप्रत्ययो... । “नित्ययोगे मतुविधानम्" इति तत्त्वार्थराजवार्तिके ५।२३। “नित्ययोगे मतुप् विहितः" इति सिद्धसेनगणिविरचितायां तत्त्वार्थवृत्तौ ५।२३। “नित्ययोगे मतोर्विधानात्.. स्पर्शादिसामान्यस्य नित्ययोगात् पुद्गलेषु' इति तत्त्वार्थश्लोकवार्तिके ५।२३। . पृ.२ पं.५ । पूरणाद् गलनाच्च... । तुलना- “पूरणाद् गलनाच्च पुद्गलाः संहन्यमानत्वाद् विसंहतिमत्त्वाच्च [५।१, पृ.३१६] ... पूरणाद् गलनाच्च पुद्गलाः परमाणुप्रभृतयोऽनन्तानन्तप्रदेशस्कन्धपर्यवसानाः" इति सिद्धसेनगणिविरचितायां तत्त्वार्थवृत्तौ ५।४, पृ.३२५ “पूरण-गलनान्वर्थसंज्ञत्वात् पुद्गला: ।२४।... भेदात् संघातात् भेदसंघाताभ्यां च पूर्यन्ते गलन्ते चेति पूरणगलनात्मिकां क्रियामन्तर्भाव्य पुद्गलशब्दोऽन्वर्थः पृषोदरादिषु निपातितः” इति तत्त्वार्थराजवार्तिके, ५।१, पृ.४३४ ॥ ___ “पूरण-गलनधर्माणः पुद्गलाः परमाण्वादयोऽनन्ताणुकस्कन्धपर्यन्ताः । ते हि कुतश्चिद् द्रव्याद् गलन्ति वियुज्यन्ते किञ्चित्तु द्रव्यं तत्संयोगतः पूरयन्तीति भावः ।" इति मलधारिहेमचन्द्रसूरिविरचितायाम् अनुयोगद्वारसूत्रवृत्तौ पृ.१८४ । । पृ.२ पं.१४ । अथ मूर्तिमाह- । तुलना- “रूपं मूर्तिः, मूर्त्याश्रयाश्च स्पर्शादय इति" इति तत्त्वार्थभाष्ये ५।३।, “किं पुना रूपं नामेत्यत आह- रूपं मूर्तिः । मूर्तिर्हि रूपादिशब्दाभिधेया, सा च रूपादिसंस्थानपरिणामा, नासर्वगतद्रव्यपरिमाणलक्षणा, व्यभिचारदर्शनात् । सर्वतः परिमितत्वे लोकस्य आत्मनोऽपि मूर्तिमत्त्वप्रसङ्गः काणभुजानाम् । परिमितत्वं चावश्यमभ्युपेयं विशिष्टसंस्थानत्वादिभिर्लोकस्य। अतो रूपमेवाव्यभिचारित्वान्मूर्तिरुच्यते । अन्येऽभिदधति-रूपशब्दो नीलादिवर्णाभिधायी समस्ति, अस्ति च दीर्घादिसंस्थानप्रतिपादनपरः । तद् यः संस्थानप्रतिपत्तिमाविष्करोति रूपशब्दस्तमुररीकृत्यावोचदाचार्यः ‘रूपं मूर्तिः' इति । एवंविधमूर्त्याश्रिताश्च स्पर्शादयः किल सर्वदा न कदाचिदसंस्थाना भवितुमर्हन्ति, अन्यथा वान्ध्येय-व्योमकुसुम-मण्डूकशिखण्डकल्पाः स्युरिति । अत्र पक्षे धर्मा-ऽधर्म-सिद्धसंस्थानैरनेकान्तः । तस्माद् रूपमेव मूर्तिरस्तु । एवं तर्हि गुणमात्रं मूर्तिशब्दस्य विषयः प्रसक्तः, न च रूपमेव मूर्तिरिति, उच्यते- द्रव्यास्तिकनयावष्टम्भात् सकलमिदं निरूप्यते। .... सैव हि मूर्तिर्द्रव्यस्वभावा चक्षुर्ग्रहणमासाद्य रूपमिति व्यपदिश्यते । अत एव पुनराह सहचराव्यभिचारप्रदिदर्शयिषयामूर्त्याश्रयाश्च स्पर्शादय इति । न खलु मूर्ति स्पर्शादयो व्यभिचरन्ति, सहचरितत्वात् । यत्र रूपपरिणामस्तत्रावश्यन्तया स्पर्श-रस-गन्धैरपि भाव्यम् । अतः सहचरमेतच्चतुष्टयम्, अतः परमाणावपि Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318