Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 279
________________ 111A स्थोपाटीकासहित द्रव्यालकारे तृतीये प्रकाशे कालश्चेत्येके' । ऐकेषामाचार्याणां मतेन कालोऽपि जीवादिभ्यः पृथगेव स्वतन्त्रं द्रव्यम् । जीवादिद्रव्यैः परिणमद्भिः स्वत एव कैल्प्यते कारणतयापेक्ष्यत इति कालोऽपेक्षाकारणम् , बलाकाप्रसवे गर्जितध्वनिवत् । द्रव्यत्वं चास्य गुणपर्यायवचात् । संयोगविभाग-सङ्ख्या परिणामा-ऽमूतत्वा-गुरुलघुत्व-सूक्ष्मत्वादयो गुणाः। जीवादि पर्यायाणां 5 परिणामहेतुत्व-परत्वापरत्वादिप्रत्ययहेतुत्वादयस्तु पर्यायाः। यदुक्तम् "निःशेषद्रव्यसंयोगविभागादिगुणाश्रयः । कालः सामान्यतः सिद्धः सूक्ष्मत्वाद्याश्रयो मिदा ॥१॥ क्रमवृत्तिपदार्थानां वृत्तिकारणतादयः । पर्यायाः सन्ति कालस्य गुणपर्ययवानतः ॥२॥" [ ] इति । 10 अस्य चास्तित्वं प्रतिनियतसकृदनेकपदार्थपरिणामात् । न खलु वर्ष-शीतोष्णवाता-शनि-हिम-तडिदभ्रगर्जितोल्काडुर-किसलय-पत्र-फल-प्रसूनोदयादयः प्रतिनियतभाविनः परिणामाः प्रतिनियतमपेक्षाकारणमृते घटन्ते, परिणामकारणमात्रभावित्वेन सर्वदा भावप्रसङ्गात् । न च क्षिन्यादय एवापेक्षाकारणम् , तेषामसर्वगतत्वात् । अत एव न धर्मा-ऽधर्मों। न चाकम्पानि, भिन्नकार्योपलम्भात् । तस्मात् काल 15 I11B एव पदार्थपरिणामस्यापेक्षाकारणम् । ननु च कालस्य परिणामो यद्यस्ति तदाऽसौ बाह्यान्यनिमित्तापेक्षः, तन्निमित्तमपि परिणाममात्मसात्कुर्वदपरनिमित्तान्तरापेक्षमित्यनवस्था स्यात् । कालपरिणामस्य च बाह्यानपेक्षत्वे जीवादिपरिणामस्यापि बाह्यनिमित्तापेक्षा मा भूत् । न च कालस्य परिणामो न सिद्धः, सतोऽवश्यं परिणामित्वाभ्यनुज्ञानात् , अन्यथा सत्वमेव 20 न स्यात् । तत्र परिणामलिङ्गः कालो भवितुमहतीति । तन्न । तस्य सकलपदार्थ १ इति द्रव्यालंकारः परिपूर्यते स्म । कृतिरियं पण्डितरामचन्द्रगुणचन्द्रयोः । क्षेमं भूयात् संघाय संघस्य वा । भद्रं भवतु । सोमालिखितं । १४९२ वर्षे चैत्रमासे कृष्णपक्षे अमावास्यां तिथौ। इति अहम्मदाबादनगरे 'हाजापटेलनी पोल'मध्ये 'संगीनो उपाश्रय' इत्यत्र विद्यमाने मूलमात्रस्य द्रव्यालधारस्य हस्तलिखितादर्श १२B पत्रे । 'इति द्रव्यालंकारः परिपूर्यते स्म' इति राजस्थाने बेडानगरे वर्तमाने 25 श्रीश्रुतझानअमीधाराख्ये भाण्डागारे विद्यमाने मूलमात्रस्य द्रव्यालङ्कारस्य हस्तलिखितादर्श १३A पत्रे ।। २ कालत्येके ।। ३ * हस्तलिखितादर्श पूर्व कल्पते इति लिखितमासीत् , तदनन्तरं तत्रैव कल्प्यते इति संशोधन विहितमस्ति । किन्तु अत्र कालस्य प्रस्तुतत्वात् 'कल्यते' इत्येव सम्यग भाति वस्तुतः।।४६' [विग्रहे षष्ठयन्तम्] ।। ५ '३' [-तृतीयान्तम् ] ॥ ६ पुण्य-पापे ॥ ७ धर्मा-ऽधर्म-खाणि || ८ तत् बानिमित्तमपि ॥ 30 Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318