________________
111A
स्थोपाटीकासहित द्रव्यालकारे तृतीये प्रकाशे
कालश्चेत्येके' । ऐकेषामाचार्याणां मतेन कालोऽपि जीवादिभ्यः पृथगेव स्वतन्त्रं द्रव्यम् । जीवादिद्रव्यैः परिणमद्भिः स्वत एव कैल्प्यते कारणतयापेक्ष्यत इति कालोऽपेक्षाकारणम् , बलाकाप्रसवे गर्जितध्वनिवत् । द्रव्यत्वं चास्य गुणपर्यायवचात् । संयोगविभाग-सङ्ख्या परिणामा-ऽमूतत्वा-गुरुलघुत्व-सूक्ष्मत्वादयो गुणाः। जीवादि पर्यायाणां 5 परिणामहेतुत्व-परत्वापरत्वादिप्रत्ययहेतुत्वादयस्तु पर्यायाः। यदुक्तम्
"निःशेषद्रव्यसंयोगविभागादिगुणाश्रयः । कालः सामान्यतः सिद्धः सूक्ष्मत्वाद्याश्रयो मिदा ॥१॥ क्रमवृत्तिपदार्थानां वृत्तिकारणतादयः । पर्यायाः सन्ति कालस्य गुणपर्ययवानतः ॥२॥" [ ] इति । 10
अस्य चास्तित्वं प्रतिनियतसकृदनेकपदार्थपरिणामात् । न खलु वर्ष-शीतोष्णवाता-शनि-हिम-तडिदभ्रगर्जितोल्काडुर-किसलय-पत्र-फल-प्रसूनोदयादयः प्रतिनियतभाविनः परिणामाः प्रतिनियतमपेक्षाकारणमृते घटन्ते, परिणामकारणमात्रभावित्वेन सर्वदा भावप्रसङ्गात् । न च क्षिन्यादय एवापेक्षाकारणम् , तेषामसर्वगतत्वात् ।
अत एव न धर्मा-ऽधर्मों। न चाकम्पानि, भिन्नकार्योपलम्भात् । तस्मात् काल 15 I11B एव पदार्थपरिणामस्यापेक्षाकारणम् ।
ननु च कालस्य परिणामो यद्यस्ति तदाऽसौ बाह्यान्यनिमित्तापेक्षः, तन्निमित्तमपि परिणाममात्मसात्कुर्वदपरनिमित्तान्तरापेक्षमित्यनवस्था स्यात् । कालपरिणामस्य च बाह्यानपेक्षत्वे जीवादिपरिणामस्यापि बाह्यनिमित्तापेक्षा मा भूत् । न च कालस्य परिणामो न सिद्धः, सतोऽवश्यं परिणामित्वाभ्यनुज्ञानात् , अन्यथा सत्वमेव 20 न स्यात् । तत्र परिणामलिङ्गः कालो भवितुमहतीति । तन्न । तस्य सकलपदार्थ
१ इति द्रव्यालंकारः परिपूर्यते स्म । कृतिरियं पण्डितरामचन्द्रगुणचन्द्रयोः । क्षेमं भूयात् संघाय संघस्य वा । भद्रं भवतु । सोमालिखितं । १४९२ वर्षे चैत्रमासे कृष्णपक्षे अमावास्यां तिथौ। इति अहम्मदाबादनगरे 'हाजापटेलनी पोल'मध्ये 'संगीनो उपाश्रय' इत्यत्र विद्यमाने मूलमात्रस्य द्रव्यालधारस्य हस्तलिखितादर्श १२B पत्रे । 'इति द्रव्यालंकारः परिपूर्यते स्म' इति राजस्थाने बेडानगरे वर्तमाने 25 श्रीश्रुतझानअमीधाराख्ये भाण्डागारे विद्यमाने मूलमात्रस्य द्रव्यालङ्कारस्य हस्तलिखितादर्श १३A पत्रे ।। २ कालत्येके ।। ३ * हस्तलिखितादर्श पूर्व कल्पते इति लिखितमासीत् , तदनन्तरं तत्रैव कल्प्यते इति संशोधन विहितमस्ति । किन्तु अत्र कालस्य प्रस्तुतत्वात् 'कल्यते' इत्येव सम्यग भाति वस्तुतः।।४६' [विग्रहे षष्ठयन्तम्] ।। ५ '३' [-तृतीयान्तम् ] ॥ ६ पुण्य-पापे ॥ ७ धर्मा-ऽधर्म-खाणि || ८ तत् बानिमित्तमपि ॥
30
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org