________________
सप्तभङ्गी निरूपणमुक्तार्थसङ्ग्रहश्च । कायः प्रदेशबाहुल्यं भावांशस्तदणोः पुनः । उत्पाद-व्यय-ध्रौव्याणां यद्वा कायः समुच्चयः ॥ १ ॥ अर्थक्रिया हि नैकान्तनित्यानित्येषु युज्यते । सदाभावप्रसङ्गः स्यान्नासतो हेतु-कार्यते ॥ २ ॥ प्रमाणानुपपत्तिर्या तद् विरोधस्य लक्षणम् । न खल्वन्यत् ततस्ताप-शोतयोरपि लक्ष्यते ॥ ३ ॥ उत्पाद-व्यय-ध्रौव्याणां सतामेकत्र नास्ति सा। अतश्च सदसद्रूपमेकमप्युपपद्यते ॥ ४ ॥ .
इति सङ्ग्रहश्लोकाः । कोय इत्यादि । तदिति प्रदेशबाहुल्यम् ।
10 अर्थक्रिया होत्यादि । सदाभावप्रसङ्गः स्यादिति नित्यस्यैकरूपत्वेन सदा सन्निहितत्वात् । असतः सर्वथा निरन्वयनाशिन एकान्तक्षणिकस्येत्यर्थः ।
प्रमाणानुपपत्तिरित्यादि । लक्षणलिङ्गानुसरणात् तदो नपुंसकत्वम् । खलुशब्दो यस्मादर्थः । ततः प्रमाणानुपपत्तेः । शीतोष्णयोरपि प्रमाणानुपपत्तिरेव विरोध इत्यर्थः । उत्पादेत्यादि। सा प्रमाणानुपपत्तिः।
15 पूर्वोदितसङ्ग्रहाय श्लोकाः सङ्ग्रहश्लोकाः।
स्यादेवम् –आगमे पड़ द्रव्याण्युक्तानि । यदुक्तम्-"केइ णं भंते ! दव्या पन्नता ? गोयमा! छ दव्या पन्नता। तंजहा-धम्मत्थिकाए अधम्मत्यिकाए आगासत्थिकाए पुग्गलस्थिकाए जीवस्थिकाए अद्धासमये [भगवतीमत्रे २५।४।६३३]त्ति। भवद्भयां च पञ्च द्रव्याणि प्रपश्चितानि । तत् कथं नागमविगेध इति । 20
अत्राह१ काय: प्रदशबाहुल्य भावांशेम्तदणोः पुन । उत्पाद-व्यय-ध्रौव्याणां यद्वा कायः समुच्चयः ।। २ अर्थक्रिया हि नकान्त नित्यानित्येषु युज्यते । सदा भावप्रसङ्गः स्यान्नासतो हेतुकार्यते ॥ ३ प्रमाणानुपपत्तिर्या तद् विरोधस्य लक्षणम् | न खल्वन्यत् ततस्तापशीतयोरपि लक्ष्यते ॥ ४ शब्दस्य ॥ ५ उत्पाद-व्यय-ध्रौव्याणां सतामेकत्र नास्ति 25 सा । अतश्च सदसद्रूपमेकमप्युपपद्यते ॥ इति संग्रहश्लोकाः ॥ ६ * तत्त्वार्थमूत्र कालश्चत्येक [५।३८] इति सूत्रं वर्तते । सिद्धसेनगणिविरचितायां तत्वार्थटीकायामेतत् सूत्रं वक्ष्यमाणं पृ० १२५ ६०१५ इत्यत्र निर्दिष्टं च सूत्रमुद्धृतमस्ति, तदनुसारेणात्रापि सूत्रमिदमुद्धृतमस्ति ग्रन्थकाराभ्यामिति स्पष्टं प्रतिभात्यत्र ।।
BOB
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org