________________
109A
109B
eaturethrafहिते क्रव्यालङ्कारे तृतीये प्रकाशे
नन्वयं स्याच्छन्दोऽनेकान्तवचनस्ततस्तेनैव सच्चादिधर्माणामुक्तत्वात् तदभिधानाप्रयोग एव । उच्यते— स्याच्छन्दोऽयमनेकान्तमात्रस्य वाचको द्योतकश्च । ततो यदा वाचकस्तदा नेकान्तसामान्यप्रतिपत्तावपि विशेषप्रतिपच्यर्थं सच्चादिशब्दप्रयोगः । सामान्यशब्दप्रयोगेऽपि हि विशेषजिज्ञापयिषया विशेषशब्दोऽपि प्रयुज्यते, यथा गां बलीवर्दमानय, करेणुं गजं पश्य । यदा तु द्योतकस्तदा सच्चादिपदोक्तमेवार्थ - 5 मवद्योतयितुं प्रयुज्यते । प्रयुज्यन्ते हि द्योतका ध्वनयः पदान्तरोक्तमप्यर्थमवद्योतयितुम्, यथा चादयः ।
110A
ર
एवं नित्यत्वानित्यत्वयोः सामान्यविशेषयोरभिलाप्यत्वानभिलाप्यत्वयोर्भेदाभेदयोरन्येषां च सप्रतियोगिनां धर्माणामवक्तव्यत्वसंयोजनायां सप्तभङ्गी दृष्टव्या ।
अत्र चाद्यास्त्रयो भङ्गाः संकलादेशाः, वस्तुनः खण्डीकृत्यानभिधानात् । शेषास्तु 10 विकलादेशाः, वस्तुनः खण्डीकृत्याभिधानात् । अत्र हि सच्चासच्चेत्येवं विभागीकृत्य वस्त्वभिधीयते । अथवा प्रमाणादेशेन सर्वेऽपि सकलादेशाः, प्रमाणस्य परिपूर्णाभिधायित्वात् । नयादेशेन तु विकैलादेशाः, नयस्य खण्डाभिधायित्वात् । इयं च सप्तभङ्गी श्रुतं प्रमाणम्, शब्दादर्थप्रतीतेरिति ।
15
चाचावचनविषयं चोभयं च क्रमेण सेच्चाऽसच्चाऽवचनविषयत्वेन युक्तं क्रमेण । सच्चासच्चावचनविषयं चाक्रमीत् सप्तभङ्गी सैषा नीतिनियम रहिता 'स्यात् ' पवित्रा तु मानेम् ||१|| सहार्पितं द्रव्यमशेषपर्ययैर्विरुद्धधर्मों यदि वा सहार्पितौ । विशेषशब्दैरविगीतं लक्षणैर्व चोनदीष्णोऽपि न वक्तुमीश्वरः ||२||
सकलादेशाः पूर्वा एकध्वनिशासनात् त्रयो भङ्गाः । अन्ये विकलादेशाः प्रेमी-नयेर्वा त्रिभागोऽयम् ||३||
सम्प्रति पूर्वोदितमेव प्रमेयं श्लोकैः सङ्क्षेपेण सङ्गृह्णाति -
१ सत्त्वादिधर्मवाचक शब्दाप्रयोग एव ॥ २ सकलाश्च ते आदेशाश्च भणनानि || ३ मुख्यया वृत्त्या अस्ति च नास्ति चेति न खण्डीकृतम् || ४ स्याद्वादाभिप्रायेण ॥ एतेऽपि 'स्यात्' पदरहिताः सन्त इत्यर्थः ॥ ६ आगमलक्षणम् ।। ७ अत्र १, २, ३, इत्यादयः अङ्का लिखिताः सन्ति, तदनुसारेण अयमत्र भावः-सच्च १, अरुच २, अवचनविषयं च ३, उभयं च क्रमेण ४, सच्च अवक्तव्यं च ५, असच्च अवक्तव्यं 25 च ६, सच्च असच्च अवक्तव्यं च ७ ॥। ८ स्यादस्ति च नास्ति च ॥ ९ स्यादस्ति चावक्तव्यं च ॥ १० युगपत् । ११ प्रमाणम् || १२ एतेन डित्थादीनां परिहारः || १३ यद्वा सबै सकलादेशाः प्रमाणादेशेन, विकलादेशा नयादेशेन ॥
Jain Education International 2010_05
For Private & Personal Use Only
20
www.jainelibrary.org