________________
सप्तभङ्गोसाधनम् |
२११
विरुद्धयोर्युगपदेकेन विशेषशब्देनाभिधेयत्वानभिधेयत्वसं शीते । ववक्तव्य शब्द प्रयोगः । तथा च सप्तभङ्गी भवति । तद् यद्यवक्तव्यशब्दस्य प्रयोगवद् वक्तव्यशब्दस्यापि 1078 विरुद्धधर्मयोर्युगपदेकशब्दाभिधेयत्वानभिधेयत्व चिन्तया प्रयोगः प्रसज्यते तदा न युक्तः, अवक्तव्यत्वस्य निर्णीतत्वात् । अथ सन्नयं घटो वक्तव्यश्वेत्येकधर्मस्यै वक्तव्यत्वावक्तव्यत्व चिन्तया न विरुद्धधर्मचिन्तया प्रयोगप्रसङ्गः तर्हि प्रसज्यतां नाम । न खलु वस्तुधर्माणां सच्चानित्यत्वादीनां शब्दाभिधेयत्वं निवार्यते, विरुद्वयोरेव धर्मयोर्युगपदेकशब्दाभिधेयत्वस्य प्रतिषेधनात् । न चैवमप्यष्टादिभङ्गप्रसङ्गः, विरुद्धधर्मापेक्षया सप्तभङ्गया एव सम्भवात्, केवलसच्चासन्वभङ्गकानां युगपत्सच्चासचभङ्गकेष्वनन्तर्भावात् । अथवा संशयाभावाद्वक्तव्यशब्दाप्रयोगः । 'यो हि सच्चासच्चादिशब्दैर108A भिधीयते स कथमवक्तव्यः स्यात् । ततः सत्त्वादिशब्दा एव वस्तुनो वक्तव्यतामभिदधत इति न वक्तव्यशब्दप्रयोगो ज्यायान् ।
वेत्रापि वस्तुनि विधीयमान- निषिध्यमानानन्तधर्मसम्भवादनन्ताः सप्त भङ्गः स्युः । स्युर्नाम, अनन्तानामपीष्टत्वात् । भङ्गकास्तु सर्वत्रापि सप्तैव । प्रतिपाद्यप्रश्नापेक्षया हि भङ्गाः प्रकल्पन्ते । प्रश्नश्च सप्तधैव सम्भवति, संदेहस्य सप्तविधत्वेन जिज्ञासायाः सप्तप्रकाराया एवं सम्भवात् । संदेहस्य तु सप्तविधत्वं 15 तद्विषयस्य वस्तुधर्मस्य सप्तविधस्यैव भावात् । तावत् सत्त्वं वस्तुधर्मः, सत्त्वरहितस्य वन्ध्यासुतस्येवासत्त्वप्रसङ्गात् । स्वरूपादिभिरिव च पररूपादिभिरपि वस्तुनोऽसच्चा1088 निष्टौ वस्तुरूपप्रतिनियमायोगादसत्त्वमपि वस्तुधर्म एव । क्रमार्पितसच्त्वासत्त्वयोरसच्चावक्तव्यत्वयोरसत्त्वावक्तव्यत्वयोः सत्त्वासत्त्वावक्तव्यत्वानामपि
वक्तव्यत्वस्य
वस्तुधर्मत्वमेव प्रतीयमानत्वात् । स्यादस्ति स्यान्नास्तीत्यादिशब्दप्रयोगे यवहितश्रोतस: 20 श्रोतुः क्रमार्पित सत्त्वासत्त्वादेः कस्यचिदर्थस्यास्ति प्रतीतिः । सा चेयं न भ्रान्ता, प्रमाणाचाधितत्वात् वस्तुनि प्राप्तिप्रवृत्तिभावाच्च । अन्यथा सद्भूतप्रत्यक्षादेरपि भ्रान्तत्वप्रसङ्गः । तदर्नया सद्भूतप्रत्यक्षादिनेव वस्तुविषयया भवितव्यम् । तत् सप्तविध एव वस्तुधः । तत्र सत्त्वासच्चयोः क्रमाक्रमत्वे गौणमुख्यत्वे वक्तव्यत्वावक्तव्यत्वे इत्यादयः स्वगता धर्माः । ततः कदाचित् कस्यचिदर्पणा क्रियते ।
ܕ
१ मुख्यया || २ अतो न वक्तव्यशब्देन सह सप्तभङ्गी ।। ३ सत्वस्यैव एकस्य ॥ ४ परः प्राह - केषांचिद् भङ्गानां केषुचिद् भङ्गेष्वन्तर्भावान्न सप्तभङ्गी प्राप्ता इत्याशङ्कायाम् || ५ स्यादस्ति, स्यान्नास्ति ।। ६ सप्तभङ्गयेव ॥ ७ अर्थः || ८ सप्तभङ्गया ॥
Jain Education International 2010_05
5
10
For Private & Personal Use Only
25
www.jainelibrary.org