________________
२१०
स्वोपज्ञटीकासहितं द्रव्यालङ्कारे तृतीये प्रकाशे
सङ्केतश्च वृद्धपरम्परानुसारी, न स्वेच्छाचारी । अन्यथा न शास्त्रीयाच्छन्दात् सर्वदेशकालपुरुषेषु प्रतिनियतार्थप्रतीतिः स्यात् । ततो यत्रार्थे शब्दस्य वृद्धसमयो नास्ति ततोऽन्यत्र प्रवर्त्तमानः प्रत्यासत्तिमपेक्षत इति न किञ्चिदसमञ्जसम् । तत् स्थितमेतत् सत्त्वासत्त्वे प्रधानभावार्पिते विशेषाभिधायिना सान्वयेन शब्देन युगपद् वक्तुमशक्ये इति ।
अवक्तव्ये 'धैर्मौ भावांशौ' इत्यादिसामान्यशब्दैर्यईच्छाशब्दैश्व वक्तुं शक्य106B त्वात् स्याच्छब्दप्रयोगः । एवं सर्वत्रावक्तव्यशब्दार्थो द्रष्टव्यः ।
107A
तुरीये सच्चायोः क्रमेण प्राधान्यार्पणा । उभयोरपि स्वशब्देनाभिधानात् । उभयोः स्वशब्दाभिधानेऽपि विरोधपरिहारार्थं स्याच्छन्दोऽपि प्रयुज्यते, एकत्र कान्तच्चासचे विरुद्धे स्याताम् ।
पञ्चमे गुणीभूतासवस्य सत्त्वस्य प्राधान्यार्पणा |
षष्ठे गुणीभूतसत्त्वस्यासत्वस्य प्राधान्यापर्णा ।
सप्तमे तु क्रमार्पितसत्त्वासत्त्वयोः प्राधान्यार्पणा । अवक्तव्यशब्दार्थस्तु सर्वत्रापि सत्वासत्वविषय एव ।
अयं तु विशेषः -- तृतीयेऽवक्तव्यत्वस्यैव प्राधान्यम् । पञ्चमे सच्चावक्तव्यत्वयोः । 15 gsसच्चावक्तव्यत्वयोः । सप्तमे सच्चा - सत्त्वा वक्तव्यत्वानामिति ।
कथं पुनरवक्तव्यशब्देनेव वक्तव्यशब्देनापि भङ्गकल्पना न भवति । उच्यतेइह तावदेकस्मिन् धर्मिणि परस्परविरुद्धयोरेव धर्मयोर्भङ्गचिन्ता । प्रधानभावार्पिर्तयोश्व
5
अथवा द्रव्य-पर्यायौ व्यस्त समस्तावाश्रित्य चरमं भङ्गत्रयम् । केवलं द्रव्यं द्रव्यपर्यायौ सहार्पितावाश्रित्य स्यात् सदवक्तव्यं वस्तु । द्रव्याश्रयेण सत्त्वं सह द्रव्यपर्यायाश्रयेण चावक्तव्यम् । केवलं पर्यायं सहितौ द्रव्यपर्यायावाश्रित्य स्यादसदवक्तव्यम् । पर्यायाश्रयेण सत्त्वं सह द्रव्यपर्यायाश्रयेण चावक्तव्यत्वम् । क्रमा- 20 feat सहार्पितौ च द्रव्यपर्यायावाश्रित्य स्यात् सदसदवक्तव्यम् । क्रमाश्रयेण सदसवं साहित्याश्रयेण चावक्तव्यत्वम् ।
10
Jain Education International 2010_05
१ पर्याया इमे ॥ २ डित्थादिभिश्च । कोऽर्थः १ डित्थशब्दः सङ्केतितः सत्त्वासत्त्वयोः केनापि ॥ ३ स्याद- 25 वक्तव्यं चेत्यत्र ॥ ४ वाच्येन सह || ५ स्यादस्ति चावक्तव्यश्व ।। ६ विशेषाभिधायिना एकेन शब्देन विरुद्ध सत्त्वासत्वे न वक्तुं शक्ये असत्त्वादेव ॥ ७ न कोऽप्येको युगपद् द्रव्यपर्यायवाची शब्दोऽस्ति इति अवक्तव्यत्वम् || ८ सत्त्वासत्त्वयोः ||
For Private & Personal Use Only
www.jainelibrary.org