________________
सप्तभक्रीमाधनम् ।
२०९ ननु यथासतं शब्दप्रवृत्तिरिति सच्चासच्चयोयुगपत् सङ्केतितः शब्दस्तदमिधायको भविष्यति, यथा गुणशब्दश्चतुर्विशतेर्गुणानामिति । उच्यते-य इह सत्वासत्त्वलक्षणविरुद्धधर्मयोर्युगपद्विशेषाभिधायी शब्दः सङ्केत्यते स तावत् सान्वयो न सम्भवति, तथाभूतस्य कस्यचिदपि शब्दस्य प्रकृति-प्रत्ययविभागादर्शनात् ।
निरन्वयस्तु शब्दः स्वेच्छया प्रकल्पिताक्षरसन्निवेशो (१) वाच्यान्तरवृत्तिः 5 पूर्वप्ररूढो वा (२) सम्भवति । तत्राद्यो न युक्तः । न खलु स्वेच्छया प्रकल्पिता106A क्षरसनिवेशाः शब्दाः सकलकाल-देशानुयायिनं व्यवहारमनुरुन्धन्ति । व्यवहारार्थ च
सङ्कतः । वाच्यान्तरवृत्तिस्तु शब्दः प्ररूढादर्थादर्थान्तरे कयाचित् प्रत्यासच्या प्रवर्तेत, नान्यथा, पुरुषे सिंहशब्दवत् । एवमपि गौणः स्यात् । 'युगपन्मुख्यशब्दामिधेयत्वं च विरुद्धयोनिवार्यते । गवादिशब्दानां तु बहवोऽप्यर्था एकमेव वाच्यम् । न तत्र पर- 10 म्परं वाच्यान्तरव्यवहारोऽस्ति, तेषामनेकार्थत्वस्य वृद्धपरम्परया प्ररूढत्वात् । प्रत्यासति च प्ररूढशब्दानामअसा युगपदनेकविरुद्धधर्मप्रतिनियतरूपाभिधाने न कामपि पश्यामः ।
ननु यदृच्छाशब्दा डित्यादयोऽनपेक्षितप्रत्यासत्नयोऽपि सर्वत्र प्रवर्तन्ते । 1060 प्रवर्तन्तां नाम, तेषां वाच्यस्यैव कस्यचित् प्रतिनियतस्याभावात् । प्रतिनियनवाचिन
स्तु शब्दाः प्रत्यासत्ति विना प्ररूढादादन्यत्र न प्रवर्तन्त एव । न च विरुद्ध- 15 धर्मयोर्डित्यादिशब्दसङ्केते काचिदर्थसिद्धिः, यदृच्छाशब्दानां सकलकाल-देशव्यवहाराननुयायित्वात् । अपि च, सान्वयशब्दापेक्षया विरुद्धधर्मयोरवक्तव्यतोच्यते यथा सदंशाभिधायी सच्छब्दोऽस्ति तथा युगपत् सदसदंशाभिधायी नास्तीति । ततो यदि डित्थादिशब्दैः सङ्केतवशाद्विरुद्धधर्मावभिधीयेते तथापि न काचित् क्षतिः ।
यद्यवं प्ररूढादर्थादर्थान्तरे शब्दस्य प्रवृत्तौ प्रत्यासत्तिरपेक्ष्यते तदा शब्दानां 20 सर्वार्थवाचकत्वव्याघातः स्यात् । न स्यात्, सङ्कतस्यापि सहकारित्वात् । यथा हि
धूमो जातवेदसः स्वतो गमकोऽपि नान्तरीयकज्ञानमपेक्षते, न खलु नालिकेरद्वीप.6A वासिनोऽनिश्चितकार्यभावस्य धूमदर्शनेऽपि वहिनिश्चयो भवति । तथा यद्यपि
सर्वे शब्दाः स्वतः सर्वार्थेषु प्रतिबद्धास्तथापि सङ्केतोत्क्षिप्तं क्षयोपशममपेक्षन्ते । १ कदाचित् सामान्यवाची स्यादिति विशेषेत्युक्तम् ॥ २ न तु गौणशम्दाभिधेयत्यम् ॥ ३ अनेकार्थ- 25 स्वलक्षणम् ॥ ४ गवादिशब्दानाम् ॥ ५ मुख्यया वृत्त्या ॥ ६ सत्त्वासत्त्वयोः ॥ ७ येनैव संकेतितस्तं प्रत्येव व्यवहार: स्यात् , नान्यान् प्रति ॥ ८ अथ च त्वन्मते सर्व शब्दाः सर्वार्थवाचका इष्टाः ॥ ९ निश्चितो हि धूमो धूमध्वजं गमयति नानिश्चित इति ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org