SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २०८ 104B स्वोपज्ञटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे "मुक्तो न मुक्त एव हि संसार्यपि सर्वथा न संसारी । मानमपि मानमेव हि हेत्वाभासोऽप्यसावेव ।। १ ।। एवं सप्रतिपक्षे सर्वस्मिन्नेव वस्तुतत्वेऽस्मिन् । स्याद्वादिनः सुनीत्या न युज्यते सर्वमेवेहे ॥ २ ॥" [ ] इति । तदपि निरस्तम् , प्रसङ्गस्येष्टत्वात् । तथाहि-मुक्तोऽपि स्वमुक्तत्वेनैव मुक्तो मुक्तान्तरमुक्तत्वेन त्वमुक्त एव, सर्वस्य पररूपेणासन्चात् । यदि वा सर्वकर्मक्षयेऽपि सच-चैतन्या-ऽसङ्खयेयप्रदेशत्वादयः संसारिसाधारणा धर्मा मुक्तस्य सन्त्यतः कथश्चिदमुक्त एव । एवं संसार्यपि संसार्यन्तररूपेणाऽसंसारित्वात् सत्त्वादिभिर्मुक्तसाधारणधमयुक्तत्वाद्वा मुक्तोऽपि । तथा प्रत्यक्षमपि स्वरूपेणैव मानं नानुमानरूपेण, स्वविषय 10 एव वा न परविषये । अनुमानमप्येवमेव । प्रमाणाभासमपि स्वात्मनि प्रमाणम् , 105A विषये त्वप्रमाणम् । एवं सर्वत्र विपक्षः स्वयमुत्प्रेक्ष्यः । न चावस्थितधर्मविपर्ययसम्भव एवानेकान्तः। सदसद्रपमपि हि न स्वरूपसत्त्वाभावेन किन्तु पररूपासत्वेन । तस्मान कचिदप्यनेकान्तविघातोस्तीति सर्वं सुस्थम् । एवं सप्तभङ्गयपि सिद्धा । 15 "एवमिति । एवं सदसद्रूपत्वयोरेकत्राविरोधसिद्धौ सप्तभङ्ग्यपि सिद्धा । सा चैवम्स्यादस्ति । स्यान्नास्ति । स्यादवक्तव्यः। स्यादस्ति च नास्ति च । स्यादस्ति चावक्तव्यश्च । स्यानास्ति चावक्तव्यश्च । स्यादस्ति च नास्ति चावक्तव्यश्चेति । तत्राद्ये भङ्गे गुणीभूतासत्वस्य सत्त्वस्य प्राधान्यार्पणा, तस्य स्वशब्देनाभिधानात् , असच्चस्य तु स्याच्छन्दनाकर्षणात् । एवं सर्वत्र गुणप्रधानभावः । 200 द्वैतीयीके गुणीभूतसत्त्वस्यासत्त्वस्य प्राधान्यार्पणा। तार्तीयीके त्वयमर्थः-प्रधानभावार्पिते मच्चासच्चे युगपदकेन सान्धयेन 1055 विशेषाभिधायिना शब्देन वक्तुमशक्ये । न खलु स शब्दोऽस्ति यो युगपत् प्राधान्या र्पणया सत्त्वासत्वे प्रतिनियतरूपेणाभिदधाति, सच्छदस्यासदविषयत्वात् , असच्छदस्य च सदविषयत्वात् । 25 १ प्रमाणम् ॥ २ न ॥ ३ न ॥ ४ '६' [-षष्ठयन्तम् ] || ५ *उद्धृतमिदं श्लोकद्वयम् आचार्यश्री हरिभद्रसरिभिरनेकान्तजयपताकायाम्, प्रथमेऽधिकारे पृ. ३५ ।। ६ आत्मीयमुक्तत्वेन || ७ '६' विग्रहे षष्ठयन्तम् ] ॥ ८ प्रमाणम् ॥ ९ येनेव रूपेण भावस्तेवाभाव इत्यर्थः ॥ १० एवं समभयपि सिदा ॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002580
Book TitleDravyalankara
Original Sutra AuthorN/A
AuthorRamchandra, Gunchandra, Jambuvijay
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages318
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy