________________
1038
मदसद्रूपत्वसाधनम् । "'विरोधिसविधेर्दोषस्तजन्मा न भवेदपि । सनि तेस्मिस्तदात्मा तु नानिष्टोऽपि निवर्त्तते ॥"
हेतुबिन्दुटीका श्लो० ३१ पृ० १०६] इति, तदपि प्रत्युक्तम् , भेदाभेदयोः परम्परं दोपात्मकत्वाभावात् । परस्परविरोधित्वमेव हि दोषात्मत्वम् । विरोधश्च परस्परपरिहारेणैवावस्थानसिद्धौ भवति । न च भेदा- 5 भेदयोः क्वचिदपि तथाभावः सिद्ध, सर्वदाप्यन्योन्यसंलुलितत्वात्। तस्मादभेद
सम्भवो दोषः समानकालभाविना भेदेन निवर्त्यत इति न सङ्कर-व्यतिकरौ । 104A अपि च, परमार्थसंविदगम्यं प्राकृतपुरुषशेमुपीणामगम्यमहिंसका-पार
दारिकपुरुपवच्छबलरूपं वस्तु। नत्र यदप्यस्माभिर्द्रव्यतयैकत्वं पर्यायतया चानेकत्वमित्यादि किश्चिदच्यते तदपि शिष्यावयोधमात्रफलतया प्रलापमात्रम् , यथावस्थित- 10 रूपेण कथयितुमशक्यत्वात् । यत् पुनस्तत्रापि सङ्कर-व्यतिकरादिदोषजातमुद्घोष्यते तदाकाशमुष्टिघातप्रायं सर्वमेव प्रयासमात्रफलमित्युपेक्षामर्हति ।
'दित्युपसंहरति। एक न पुनरनेकं सत् । इतिकरणो मौलसूत्रव्याख्यापरिसमाप्त्यर्थः।
एदेन यदलम्
१ मेद ॥ • अत्रेदं बोध्यम्-'आह च' इत्युक्त्वा ४५ कारिका हेतुबिन्दुटीकायामचंटेन [पृ. 15 १०४-१०७] लिखिताः, तत्रयं ३१तमी कारिका । किन्तु नेमाः कारिका अन्यग्रन्थावर्घटेन उद्धताः, अपि तु स्वकृता एव इति हेतु बिन्दुटीकालोके दुषकमिश्रेण अभिहितम् । “अनन्तरोक्तमर्थजातं सातिरेक स्वकृताभिः कारिकाभिः प्रतिपादयितुं परमुखेगाह-आह चंति ।" इति हेतुबिन्दुटीकालोके पृ० ३४४ ॥ "भदाभेदाभ्यामुत्पत्तिधर्मत्वममीषां दोषाणामभ्युपेत्य सर्वमिदमुक्तम् । अधुना तु तादारम्यादेव तेषामनिवार्यत्वमायातमिति प्रतिपादयितुं गुडनागरादौ परेण दृष्टान्तीकृते जन्यदोषाणामन्यथैवानुपपत्तिमभ्युपगच्छ नाह- 20 विरोधीति । विरोधिनो नागरादेः सन्निधि:(धे):, तस्माद् विरोधिशून्याद गुडादेर्जन्म यस्य दोषस्य । सतजन्मा न भवेदपि । तदात्मा भेदाभदात्मा तु दोषः, सतु(ति) तस्मिन्नात्मभूते भेदे अभेदे च अनिष्टोऽपि न दिवर्तते अतरस्वभावत्वप्रसङ्गादिति भावः । इदमत्रार्थसतत्त्वम्-भिद्यमानं हि रूपं भेदो विपर्ययेण चाभेदः । विभिन्न च ते स्यातामित्यादिना च वस्तुतस्तदात्मक एव दोषो दर्शितः । अनेक. कार्यकारित्वमपि अभिन्नरूपात्मकमेव वस्तुतः । अन्यदपि दूधण वस्तुतो भेदाभेदात्मकमेव । व्यावृत्तिकृतस्तु 25 भेदो यदि भवेद् भवतु, न तावता प्रकृतक्षतिरिति" इति पण्डितदुवैकमिश्रविरचिते हेतुबिन्दुटीकालोके पृ० ३५१ ॥ २ '६' [-विग्रहे षष्ठयन्तम्] ।। ३ '५' पञ्चम्यन्तम् ] || ४ अभेद ॥ ५ विरोधिाने सति ।। ६ विरोध्यारमा । कोऽर्थः१ भेदे सति अभेदभवनमेव दोषः ॥ ७ यथा वही सति शीतस्याभवनं विरोधः तथा भेदे सति अभेदस्याभवनमेव, विरोधात् ॥ ८ परस्परपरिहारेणावस्थानभावः॥ ९ केवलज्ञान || १० '३' [-विग्रहे तृतीयान्तम् ] || ११ तदेकं सदसपमिति ।।
30
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org