________________
२०६
स्वोपाटीकामहिते द्रव्यालङ्कारे तृतीये प्रकाशे परस्परं कथश्चिदभेदः । सदसद्रूपते अपि वस्तुनो धर्मों ततो धर्मिणः परस्परस्माच्च स्यादभेदिन्यौ ।
स्यादेवम्-द्रव्यपर्याययोः प्रतिभासभेदाद् घटपटवद् भेदैकान्त एव युक्तः । काल-संज्ञा-वचन-कारणा-ऽर्थक्रियाभेद-विरुद्धधर्माध्यासेभ्यश्च । तथाहि-अन्यः कालः पटस्यान्यश्च तन्तूनाम् , पटस्तन्तव इति संज्ञा-वचनयोभदः, कारणा-ऽर्थक्रिया- 5, भेद-विरुद्धधर्माध्यासाश्च प्रतीता एव । तदेतदयुक्तम् , सर्वथा प्रतिभासभेदस्यासिद्ध
त्वात् । कथञ्चित् प्रतिभासभेदस्तु कथञ्चिदेव भेदं साधयति, न सर्वथा । तन्तव 1018 एव च पटरूपतया परिणमन्ते, ततः कालभेदो न सिद्धः । अप्राप्तपटपरिणामानां
पुनः कालभेदाद् भेदः सिद्ध एव । संज्ञाभेदस्तु कथञ्चिद् भेदेऽपि घटते । स चेष्ट एव । वचनभेदोऽप्येवमेव । कारणभेदः पुनरसिद्धः, कुविन्दादिना तन्तूनामेव पट- 10 रूपेण करणात् । अर्थक्रियाभेदोऽप्येवमेव । न हि प्राप्तपटावस्थास्तन्तवः पटाद् मिन्नामर्थक्रियां कुर्वन्ति । अप्राप्तपटावस्थानां पुनः सर्वत्र भेदोऽभिमत एव । य एव च धर्माम्तन्तूनां पटस्यापि त एव कथञ्चिदभेदादतो विरुद्धधर्माध्यासोऽपि न सिद्धः ।
स्यान्मतम्-तन्तुभ्यो यदि पटस्य कथञ्चिदभेदस्तदा तन्तूनाभिव पटानेकत्वम् , अथ पटात् तन्तूनां तदा पटस्येव तन्तूनामेकत्वं प्रसक्तम् , अन्यथा विरुद्ध- 15 1034 धर्माध्यासादभेद एव न स्यादिति । तदेतदिष्टमेव । तन्तुपटयोः कथञ्चिदेकत्व
स्यानेकत्वम्य चाभ्यनुज्ञानात् । पटरूपतया तन्तूनामेकत्वं तन्तुरूपतया पटम्य चानकत्वम् । न खलु केवलमेकमने वा किश्चिःस्ति, सर्वस्यैकानेकरूपत्वात ।
स्यान्मतिः-द्रव्यपर्याययोरभेदे सङ्कर-व्यतिकरौ स्याताम् । तथाहि-यन बभावेन वस्तुन एकत्वं तेनानेकत्वमपि, येन चानेन्वं तेनैकत्वमपि स्यात् , 20 सर्वेषां युगपत् प्राप्तिः सङ्करः । तथा येन स्वभावेनैकत्वं तेनानेकत्वमेव, येन चानेकत्वं तनकत्वमेव स्यात्, परम्परविषयगमनं व्यतिकर इति । तदपि न, कथञ्चिद् भेदस्यापीष्टत्वात् । यो ह्यभेदैकान्तनिबन्धनो दोषः स समानकालभाविना भेदन निवर्त्यते । एतेन यदुक्तम्१ एकस्मादर्मादपरो धर्मोऽभेदी ।। २ द्रव्यपर्यायौ एकान्तेन भिन्नो भिन्नप्रतिभास वात् ॥ ३ न केवलं 25. प्रतिभासभेदात् ॥ ४ 'पट एकः, तन्तयश्च वहवः' इत्यादि विरुद्धधर्माध्यासत्वम् || २ कथशः धर्मधर्मिणोरभेदे साधिते ॥ ६ सर्वथा कञ्चद्वा प्रतिभासभेद इति विकल्पयो ।। ७ कथञ्चिद् मेदः॥ ८ द्रव्यर पादिना ।। ५ पर्यायेभ्योऽभेदादित्यर्थः ।। १० पर्यायरूपेण ॥ ११ द्रव्याभेदादित्यर्थः ।। १२ विपर्ययः ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org