________________
10
सदसद्रूपत्वसाधनम्
२०५ व्यक्ति मित्रं । अन्यद्धि पटरूपासत्त्वं घटेऽन्यच्च स्तम्भादिषु । ततः पटरूपासत्त्वमेव व्यापकं न भवति कुतस्तेदभेदाद् घटरूपसत्त्वं तथा म्यात् । तस्मादवाधितप्रमाणविषय
त्वात् सदसरूपं वस्तु परमार्थसदेवेति स्थितम् ।। 101 ननु सदसत्त्वे भावाभावरूपे, भावोपमर्दनात्मकं चाभावस्य रूपम् । यदि
चासत्वेन सत्वं ग्रासीकृतं तदाऽसत्त्वरूपतेव वस्तुनः स्यात् , सत्वरूपस्य नामापि 5 नश्येदिति । न । भावोपमर्दनात्मकोऽभाव इति मार्गः श्रेयानुत्प्रेक्षितः । किन्तु स्वाभावः पराभावो वा भावोपमर्दनात्मक इत्यत्र विवेककरणे भ्रान्तोऽसि स्वाभाव एव हि भावोपमर्दनात्मको न पराभावः । वस्तूनां चासत्वं पररूपेण न स्वरूपेण । ततः पररूपाभावरूपेणासत्वेन स्वरूपसत्वस्य ग्रासीकरणऽपि न वस्तुनोऽसत्त्वरूपतेव भवति, स्वसचाभावेनाऽग्रासीकरणात् ।
___स्यादेवम्--पररूपासत्त्वमित्यत्र नञ् पर्युदासः प्रसज्यो वा ? पर्युदासत्वे भावान्तरमेवोक्तं स्यात् , तस्य विधिविषयत्वात् । न च भावो भावान्तरात्मा भवति,
प्रत्यक्षबाधितत्वात् । प्रसज्यत्वे तु तुच्छरूपं पररूपासचमुक्तं म्यात् । तस्य च 101B वस्तुधर्मत्वानुपपत्तिः । न हि निरुपान्यं सोपाग्यम्वभावं भवितुमर्हतीति । न ।
केवलसतः केवलासतश्च सकाशात सदसरूपं वस्तु जात्यन्तरमेव । ततस्तत्र नविचार: 15 क्रियमाणः केवलं वायुभक्षतामेव पिशुनयति । यदि वा प्रसज्यप्रतिषेधेऽपि न पररूपासत्त्वं तुच्छरूपम् , अतुच्छरूपेण स्वरूपसन्वेनाभेदात् । न हि केवलं सच्चमसचं वा क्वचिदप्यस्ति, किन्तु सर्वत्र सच्चसंवलितमेवासचम्। तस्मादबाधितप्रमाणविषयत्वाद्वस्तुनः सदसद्रूपत्वे वस्तुसती ।
सदसद्रूपते स्वतो धर्मिणश्च स्यादर्भदिन्यौ, धर्मधर्मिणो- 20 रेकान्तभेदाभेदयोः सम्वन्धाभावात् । तदेकं सदसद्रूपमिति ।
संदसद्रूपते इति । स्वतः परस्परस्माद् धर्मिणश्च द्रव्यात् , स्यात् कथञ्चित् , धर्मधर्मिणारेकान्तभेदाभेदयोः सम्बन्धाभावात् , धर्मधर्मिणो कान्तभेदे समवायः
सम्बन्धो न घटते, तस्यैकत्वेन सर्वस्य तथाभावप्रसङ्गात् । संयोगश्च द्रव्ययोरेव 202A भवति । एकान्ताभेदेऽपि कस्य केन सम्बन्धः स्यात् , अनेकवस्तुनिष्ठत्वात् तस्य । 25
तस्मात् कथञ्चिदभेद एव सम्बन्धः। धर्मिणश्चैकस्मात् कथञ्चिदभेदाद्धर्माणामपि
१ पटरूपासत्त्वाभेदात् || २ व्यापकम् || ३ स्वरूपसत्त्वाभावेनेत्यर्थः ।। ४ नरसिंहयत् ॥ ५ सदसद्रूपते स्वतो धर्मिणाम स्याद दिन्यो । ६ न च धर्मधर्मिणोः । न धर्मयोः ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org