________________
२०४
स्थोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे स्यादेवम्-पटरूपाद्यसत्त्वं यथा घटे व्यवस्थितं तथा पटादन्यत्र सकलेष्वपि वस्तुपु, अन्यथा पटस्य विभुत्वप्रसङ्गः। घटरूपादिसत्त्व-पटरूपायसवयोश्च कथञ्चिदभेद इष्यते, तथा च पटरूपाद्यसत्त्ववद् घटरूपादिसत्वस्य सर्वत्रावस्थितिः स्यादिति । न। 'पैररूपासत्त्व-स्वरूपसत्त्वयोरभेदेऽपि न पररूपासत्त्ववत् स्वरूपसत्त्वस्य सर्वत्र यावति पररूपासवं तारति भावोऽवस्थानम् । सर्वत्र वस्तुराशौ सता विद्यमानेन स्वरूपासत्त्वेन 5 वाधनात् स्वरूपसत्त्वस्यावस्थाननिरोधात् । यद्यपि हि पटरूपासचाभेदाद् घटरूपसत्वं सर्वत्र प्रामोति तथापि स्वाभावेन बाधितत्वान्न भवति, म्वरूपस्वभावाभावयोः परस्परविरोधिनोरेकत्र प्रमाणेनानुपलम्भात् , पटरूपासत्त्ववद् घटरूपासत्वस्यापि सर्वत्र भावात् ।
स्यान्मतम्-यावता घटरूपसवं पटल्यासत्वादभिन्नं तावता सर्वत्र प्राप्तं 10 यावता च स्वाभावेन बाध्यते तावता न प्राप्तम् । एवं च सन्दिमहे-पटरूपा
सचाभेदतो घटरूपसत्त्वं सर्वत्र वा भवेत् स्वाभाववाधितत्वान्मा वेति । तन्न । 1004 सर्वत्रावस्थानं हि घटरूपसत्वस्य पररूपाभावाभेदायातत्वाद् गौणम् । अनवस्थानं तु
स्वाभावबाधितत्वाद् मुख्यम् । गौणमुख्ययोश्च मुख्यमेव बलीय इति सर्वत्रानवस्थानमेव भवति । अथवा यथा पटरूपासत्त्वामेदेऽपि घटरूपसत्त्वं पटे न भवति पटरूपा- 15 सत्वस्य तंत्राभावात् , पटरूपासत्वाकान्त एव देशे घटरूपसवभावस्य प्रसअनात् । एवं स्तम्भेऽपि न भवति, स्तम्भरूपासच्चस्य तंत्राभावात् , घटरूपसच्चस्तम्भरूपासत्त्वयोश्चाभेदात् , अमिन्नयोश्चैकयोगक्षेमत्वात् । एवमन्येलपि न भवति, सर्वपां स्वरूपाभाववत् स्वरूपाभावाभिन्नस्यापि परिहारात । यदिवा वस्तुस्वरूपासववद्
यदि वस्तुस्वरूपसत्त्वमपि सर्वान्यभावाभिन्नं भवेत्तदा सदंशेनापि भावानामभेद: 20 100B स्यात् । स च प्रत्यक्षबाधितः। ततो यद्यपि पररूपासचाभेदात् स्वरूपसत्त्वस्य
सर्वत्र भावः प्रसक्तस्तथापि सत्त्वात तेजोऽवयविनोऽनुष्णत्ववन्न भवति, प्रत्यक्षबाधितत्वात् । न केवलं सर्वत्र सता स्वरूपासत्त्वेन बाधनात् स्वरूपसत्त्वं सर्वत्र न भवति, पररूपासत्त्वस्य प्रतिव्यक्ति भिन्नत्वाच्च । न यदेव पटरूपासत्त्वं घटे व्यवस्थितं तदेव कुसुमरश्मिवि भावान्तरेष्वपि यतो घटरूपसचमभेदात् सर्वत्र भवेत् , किन्तु प्रति- 25 १ पटरूपाद्यसत्त्वेन सहाभेदादिति भावः ।। २ पररूपा-सत्त्वस्वरूपसत्त्वयोग्भेदेऽपि न पररूपासत्ववत् स्वरूपमत्त्वस्य सर्वत्र भावः ।। ३ अपेतनीणाव्या(?)एतस्य ॥ * अत्र मध्यममक्षरत्रयं न सम्यक् पठ्यते ॥ ४ सर्वत्र सता स्वरूपामधेन बाधनात् ॥ ५ पटे ॥ ६ घटरूपसत्त्वम् । कोऽभिप्रायः? यथा घटरूपसत्त्वं पटरूपासत्त्वेनाभिन्न तथा स्तम्भादिरूपासत्त्वेनापि इति सर्वत्र तदभावः ॥ ७ स्तम्भे ।। ८ कुम्भादिषु ।। ९ सूत्र ॥
30
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org