________________
कालसाधनम् ।
२१५ परिणामनिमित्तत्वेन स्वपरिणामेऽपि हेतुत्वात् , सकलावगाहहेतुत्वेनाकाशस्य स्वाव
गाहहेतुत्ववत् , सर्वविदः सकलार्थसाक्षात्कारित्वेन स्वात्मसाक्षात्कारित्ववद्वा। न 112A चैवं जीवादय एव स्वपरिणामानामपेक्षाकारणमपि भविष्यन्तीति वक्तं शक्यम् ।
निम्बादौ स्वहेतुकस्य कुटुकत्वादेर्दर्शनादोदनादावपि तस्य स्वहेतुकत्वप्रसङ्गात् । [पदार्थेषु परापरादि]प्रत्ययान्यथानुपपन्या कालकल्पना तावदवश्यभाविनी । सा चेत् 5 कार्यान्तरार्थमुपस्थिता कार्यान्तरमपि भवदीयं साधयति साधयतु नाम को दोषः ? यदि हि परिभोगार्थ परिगृहीता प्रियदयिता गृहकर्मापि करोति तदा गृहिणां न
किं विशेषलाभः ? तस्मात् पदार्थानां प्रतिनियतपरिणामदर्शनात् कालो नाम 1128 द्रव्यान्तरमस्तीति गम्यते । परापरादिप्रत्ययहेतुत्वाच । तथाहि-अपरदिक्सम्बन्धिनि
*निन्धवृद्धलुब्धके परत्वप्रत्ययः परदिक्सम्बन्धिनि च प्रशस्ते कुमारतपस्विन्यपरत्व- 10 प्रत्ययोऽवश्यं विशिष्टकारणापेक्षः। स च काल एव, अन्यस्याघटनात् । तस्मात् पदार्थप्रतिनियतविचित्रपरिणामान्यथानुपपल्या परापरादिप्रत्ययान्यथानुपपन्या च सिद्ध कालो नाम षष्ठं द्रव्यं केषाश्चिदाचार्याणां मतेन ।
ननु यद्यागमसिद्धं कालद्रव्यं तदा किमिति भवद्भयां पञ्चसु द्रव्येष्वन्तर्भावितम् । 113A उच्यते-आगमेऽन्तर्भावोऽपि प्रतिपादितः । तदुक्तम्-"किमिदं भंते ! कालो ति 15
पवुचई ? गोयमा । जीवा चेव अजीवा चे ।" [ ]। अपि चावाभ्यामस्तिकायानां लक्षणं कर्त्तमारब्धम् । न च कालोऽस्तिकायः, आगमे प्रतिपादनात् । ततः पश्चास्तिकायलक्षण[प्रतिपादनाश्रय एवे]ति ।। छ।
अंकम्पानां वृत्तौ यदजनि शुभं तेन पदवीं
रिपुर्वा मित्रं वा सपदि लभतां तां जनगणः । अकाण्डे क्रोधान्धप्रभुविहितदण्डप्रतिभया
न कम्पन्ते यस्यां परिजनवपि क्षणमपि ॥ १ ॥ पूर्यस्य समुद्धतिर्न विहिता धीरैः कुतोऽप्याशया
दावाभ्यां स समुद्धृतो श्रुतनिधेव्योत्करो दुर्लभः । १ * अत्र तालपत्रधाराया मनाक् त्रुटितत्वात् सप्ताष्टान्यक्षराणि त्रुटितानि । अतोऽस्मरकल्पनया पूरितोऽयं 25 पाठः ।। २ स्वपरिणामेऽपि हेतुत्वलक्षणम् ॥ ३ पश्चिम ॥ ४ प्रशस्येऽपि पुरुषे परशन्दो वर्तते इति निन्द्य इत्युक्तम् ॥ ५ पूर्व ।। ६. "समया ति आवलिया ति वा जीवा ति या अजीवा ति या पवुञ्चति" इति स्थानाङ्गसूत्रे सू०१०६ ॥ ७ *अत्र तालपत्रधारायाः किञ्चित् त्रुटितत्वात् सप्ताष्टान्यक्षराणि अस्मत्कल्पनया पूरितानि ॥ ८ धर्मादीनाम् ॥ ९ विवरणे ।।
20
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org