Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 277
________________ 109A 109B eaturethrafहिते क्रव्यालङ्कारे तृतीये प्रकाशे नन्वयं स्याच्छन्दोऽनेकान्तवचनस्ततस्तेनैव सच्चादिधर्माणामुक्तत्वात् तदभिधानाप्रयोग एव । उच्यते— स्याच्छन्दोऽयमनेकान्तमात्रस्य वाचको द्योतकश्च । ततो यदा वाचकस्तदा नेकान्तसामान्यप्रतिपत्तावपि विशेषप्रतिपच्यर्थं सच्चादिशब्दप्रयोगः । सामान्यशब्दप्रयोगेऽपि हि विशेषजिज्ञापयिषया विशेषशब्दोऽपि प्रयुज्यते, यथा गां बलीवर्दमानय, करेणुं गजं पश्य । यदा तु द्योतकस्तदा सच्चादिपदोक्तमेवार्थ - 5 मवद्योतयितुं प्रयुज्यते । प्रयुज्यन्ते हि द्योतका ध्वनयः पदान्तरोक्तमप्यर्थमवद्योतयितुम्, यथा चादयः । 110A ર एवं नित्यत्वानित्यत्वयोः सामान्यविशेषयोरभिलाप्यत्वानभिलाप्यत्वयोर्भेदाभेदयोरन्येषां च सप्रतियोगिनां धर्माणामवक्तव्यत्वसंयोजनायां सप्तभङ्गी दृष्टव्या । अत्र चाद्यास्त्रयो भङ्गाः संकलादेशाः, वस्तुनः खण्डीकृत्यानभिधानात् । शेषास्तु 10 विकलादेशाः, वस्तुनः खण्डीकृत्याभिधानात् । अत्र हि सच्चासच्चेत्येवं विभागीकृत्य वस्त्वभिधीयते । अथवा प्रमाणादेशेन सर्वेऽपि सकलादेशाः, प्रमाणस्य परिपूर्णाभिधायित्वात् । नयादेशेन तु विकैलादेशाः, नयस्य खण्डाभिधायित्वात् । इयं च सप्तभङ्गी श्रुतं प्रमाणम्, शब्दादर्थप्रतीतेरिति । 15 चाचावचनविषयं चोभयं च क्रमेण सेच्चाऽसच्चाऽवचनविषयत्वेन युक्तं क्रमेण । सच्चासच्चावचनविषयं चाक्रमीत् सप्तभङ्गी सैषा नीतिनियम रहिता 'स्यात् ' पवित्रा तु मानेम् ||१|| सहार्पितं द्रव्यमशेषपर्ययैर्विरुद्धधर्मों यदि वा सहार्पितौ । विशेषशब्दैरविगीतं लक्षणैर्व चोनदीष्णोऽपि न वक्तुमीश्वरः ||२|| सकलादेशाः पूर्वा एकध्वनिशासनात् त्रयो भङ्गाः । अन्ये विकलादेशाः प्रेमी-नयेर्वा त्रिभागोऽयम् ||३|| सम्प्रति पूर्वोदितमेव प्रमेयं श्लोकैः सङ्क्षेपेण सङ्गृह्णाति - १ सत्त्वादिधर्मवाचक शब्दाप्रयोग एव ॥ २ सकलाश्च ते आदेशाश्च भणनानि || ३ मुख्यया वृत्त्या अस्ति च नास्ति चेति न खण्डीकृतम् || ४ स्याद्वादाभिप्रायेण ॥ एतेऽपि 'स्यात्' पदरहिताः सन्त इत्यर्थः ॥ ६ आगमलक्षणम् ।। ७ अत्र १, २, ३, इत्यादयः अङ्का लिखिताः सन्ति, तदनुसारेण अयमत्र भावः-सच्च १, अरुच २, अवचनविषयं च ३, उभयं च क्रमेण ४, सच्च अवक्तव्यं च ५, असच्च अवक्तव्यं 25 च ६, सच्च असच्च अवक्तव्यं च ७ ॥। ८ स्यादस्ति च नास्ति च ॥ ९ स्यादस्ति चावक्तव्यं च ॥ १० युगपत् । ११ प्रमाणम् || १२ एतेन डित्थादीनां परिहारः || १३ यद्वा सबै सकलादेशाः प्रमाणादेशेन, विकलादेशा नयादेशेन ॥ Jain Education International 2010_05 For Private & Personal Use Only 20 www.jainelibrary.org

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318