Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 278
________________ सप्तभङ्गी निरूपणमुक्तार्थसङ्ग्रहश्च । कायः प्रदेशबाहुल्यं भावांशस्तदणोः पुनः । उत्पाद-व्यय-ध्रौव्याणां यद्वा कायः समुच्चयः ॥ १ ॥ अर्थक्रिया हि नैकान्तनित्यानित्येषु युज्यते । सदाभावप्रसङ्गः स्यान्नासतो हेतु-कार्यते ॥ २ ॥ प्रमाणानुपपत्तिर्या तद् विरोधस्य लक्षणम् । न खल्वन्यत् ततस्ताप-शोतयोरपि लक्ष्यते ॥ ३ ॥ उत्पाद-व्यय-ध्रौव्याणां सतामेकत्र नास्ति सा। अतश्च सदसद्रूपमेकमप्युपपद्यते ॥ ४ ॥ . इति सङ्ग्रहश्लोकाः । कोय इत्यादि । तदिति प्रदेशबाहुल्यम् । 10 अर्थक्रिया होत्यादि । सदाभावप्रसङ्गः स्यादिति नित्यस्यैकरूपत्वेन सदा सन्निहितत्वात् । असतः सर्वथा निरन्वयनाशिन एकान्तक्षणिकस्येत्यर्थः । प्रमाणानुपपत्तिरित्यादि । लक्षणलिङ्गानुसरणात् तदो नपुंसकत्वम् । खलुशब्दो यस्मादर्थः । ततः प्रमाणानुपपत्तेः । शीतोष्णयोरपि प्रमाणानुपपत्तिरेव विरोध इत्यर्थः । उत्पादेत्यादि। सा प्रमाणानुपपत्तिः। 15 पूर्वोदितसङ्ग्रहाय श्लोकाः सङ्ग्रहश्लोकाः। स्यादेवम् –आगमे पड़ द्रव्याण्युक्तानि । यदुक्तम्-"केइ णं भंते ! दव्या पन्नता ? गोयमा! छ दव्या पन्नता। तंजहा-धम्मत्थिकाए अधम्मत्यिकाए आगासत्थिकाए पुग्गलस्थिकाए जीवस्थिकाए अद्धासमये [भगवतीमत्रे २५।४।६३३]त्ति। भवद्भयां च पञ्च द्रव्याणि प्रपश्चितानि । तत् कथं नागमविगेध इति । 20 अत्राह१ काय: प्रदशबाहुल्य भावांशेम्तदणोः पुन । उत्पाद-व्यय-ध्रौव्याणां यद्वा कायः समुच्चयः ।। २ अर्थक्रिया हि नकान्त नित्यानित्येषु युज्यते । सदा भावप्रसङ्गः स्यान्नासतो हेतुकार्यते ॥ ३ प्रमाणानुपपत्तिर्या तद् विरोधस्य लक्षणम् | न खल्वन्यत् ततस्तापशीतयोरपि लक्ष्यते ॥ ४ शब्दस्य ॥ ५ उत्पाद-व्यय-ध्रौव्याणां सतामेकत्र नास्ति 25 सा । अतश्च सदसद्रूपमेकमप्युपपद्यते ॥ इति संग्रहश्लोकाः ॥ ६ * तत्त्वार्थमूत्र कालश्चत्येक [५।३८] इति सूत्रं वर्तते । सिद्धसेनगणिविरचितायां तत्वार्थटीकायामेतत् सूत्रं वक्ष्यमाणं पृ० १२५ ६०१५ इत्यत्र निर्दिष्टं च सूत्रमुद्धृतमस्ति, तदनुसारेणात्रापि सूत्रमिदमुद्धृतमस्ति ग्रन्थकाराभ्यामिति स्पष्टं प्रतिभात्यत्र ।। BOB Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318