Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 275
________________ २१० स्वोपज्ञटीकासहितं द्रव्यालङ्कारे तृतीये प्रकाशे सङ्केतश्च वृद्धपरम्परानुसारी, न स्वेच्छाचारी । अन्यथा न शास्त्रीयाच्छन्दात् सर्वदेशकालपुरुषेषु प्रतिनियतार्थप्रतीतिः स्यात् । ततो यत्रार्थे शब्दस्य वृद्धसमयो नास्ति ततोऽन्यत्र प्रवर्त्तमानः प्रत्यासत्तिमपेक्षत इति न किञ्चिदसमञ्जसम् । तत् स्थितमेतत् सत्त्वासत्त्वे प्रधानभावार्पिते विशेषाभिधायिना सान्वयेन शब्देन युगपद् वक्तुमशक्ये इति । अवक्तव्ये 'धैर्मौ भावांशौ' इत्यादिसामान्यशब्दैर्यईच्छाशब्दैश्व वक्तुं शक्य106B त्वात् स्याच्छब्दप्रयोगः । एवं सर्वत्रावक्तव्यशब्दार्थो द्रष्टव्यः । 107A तुरीये सच्चायोः क्रमेण प्राधान्यार्पणा । उभयोरपि स्वशब्देनाभिधानात् । उभयोः स्वशब्दाभिधानेऽपि विरोधपरिहारार्थं स्याच्छन्दोऽपि प्रयुज्यते, एकत्र कान्तच्चासचे विरुद्धे स्याताम् । पञ्चमे गुणीभूतासवस्य सत्त्वस्य प्राधान्यार्पणा | षष्ठे गुणीभूतसत्त्वस्यासत्वस्य प्राधान्यापर्णा । सप्तमे तु क्रमार्पितसत्त्वासत्त्वयोः प्राधान्यार्पणा । अवक्तव्यशब्दार्थस्तु सर्वत्रापि सत्वासत्वविषय एव । अयं तु विशेषः -- तृतीयेऽवक्तव्यत्वस्यैव प्राधान्यम् । पञ्चमे सच्चावक्तव्यत्वयोः । 15 gsसच्चावक्तव्यत्वयोः । सप्तमे सच्चा - सत्त्वा वक्तव्यत्वानामिति । कथं पुनरवक्तव्यशब्देनेव वक्तव्यशब्देनापि भङ्गकल्पना न भवति । उच्यतेइह तावदेकस्मिन् धर्मिणि परस्परविरुद्धयोरेव धर्मयोर्भङ्गचिन्ता । प्रधानभावार्पिर्तयोश्व 5 अथवा द्रव्य-पर्यायौ व्यस्त समस्तावाश्रित्य चरमं भङ्गत्रयम् । केवलं द्रव्यं द्रव्यपर्यायौ सहार्पितावाश्रित्य स्यात् सदवक्तव्यं वस्तु । द्रव्याश्रयेण सत्त्वं सह द्रव्यपर्यायाश्रयेण चावक्तव्यम् । केवलं पर्यायं सहितौ द्रव्यपर्यायावाश्रित्य स्यादसदवक्तव्यम् । पर्यायाश्रयेण सत्त्वं सह द्रव्यपर्यायाश्रयेण चावक्तव्यत्वम् । क्रमा- 20 feat सहार्पितौ च द्रव्यपर्यायावाश्रित्य स्यात् सदसदवक्तव्यम् । क्रमाश्रयेण सदसवं साहित्याश्रयेण चावक्तव्यत्वम् । 10 Jain Education International 2010_05 १ पर्याया इमे ॥ २ डित्थादिभिश्च । कोऽर्थः १ डित्थशब्दः सङ्केतितः सत्त्वासत्त्वयोः केनापि ॥ ३ स्याद- 25 वक्तव्यं चेत्यत्र ॥ ४ वाच्येन सह || ५ स्यादस्ति चावक्तव्यश्व ।। ६ विशेषाभिधायिना एकेन शब्देन विरुद्ध सत्त्वासत्वे न वक्तुं शक्ये असत्त्वादेव ॥ ७ न कोऽप्येको युगपद् द्रव्यपर्यायवाची शब्दोऽस्ति इति अवक्तव्यत्वम् || ८ सत्त्वासत्त्वयोः || For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318