Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 274
________________ सप्तभक्रीमाधनम् । २०९ ननु यथासतं शब्दप्रवृत्तिरिति सच्चासच्चयोयुगपत् सङ्केतितः शब्दस्तदमिधायको भविष्यति, यथा गुणशब्दश्चतुर्विशतेर्गुणानामिति । उच्यते-य इह सत्वासत्त्वलक्षणविरुद्धधर्मयोर्युगपद्विशेषाभिधायी शब्दः सङ्केत्यते स तावत् सान्वयो न सम्भवति, तथाभूतस्य कस्यचिदपि शब्दस्य प्रकृति-प्रत्ययविभागादर्शनात् । निरन्वयस्तु शब्दः स्वेच्छया प्रकल्पिताक्षरसन्निवेशो (१) वाच्यान्तरवृत्तिः 5 पूर्वप्ररूढो वा (२) सम्भवति । तत्राद्यो न युक्तः । न खलु स्वेच्छया प्रकल्पिता106A क्षरसनिवेशाः शब्दाः सकलकाल-देशानुयायिनं व्यवहारमनुरुन्धन्ति । व्यवहारार्थ च सङ्कतः । वाच्यान्तरवृत्तिस्तु शब्दः प्ररूढादर्थादर्थान्तरे कयाचित् प्रत्यासच्या प्रवर्तेत, नान्यथा, पुरुषे सिंहशब्दवत् । एवमपि गौणः स्यात् । 'युगपन्मुख्यशब्दामिधेयत्वं च विरुद्धयोनिवार्यते । गवादिशब्दानां तु बहवोऽप्यर्था एकमेव वाच्यम् । न तत्र पर- 10 म्परं वाच्यान्तरव्यवहारोऽस्ति, तेषामनेकार्थत्वस्य वृद्धपरम्परया प्ररूढत्वात् । प्रत्यासति च प्ररूढशब्दानामअसा युगपदनेकविरुद्धधर्मप्रतिनियतरूपाभिधाने न कामपि पश्यामः । ननु यदृच्छाशब्दा डित्यादयोऽनपेक्षितप्रत्यासत्नयोऽपि सर्वत्र प्रवर्तन्ते । 1060 प्रवर्तन्तां नाम, तेषां वाच्यस्यैव कस्यचित् प्रतिनियतस्याभावात् । प्रतिनियनवाचिन स्तु शब्दाः प्रत्यासत्ति विना प्ररूढादादन्यत्र न प्रवर्तन्त एव । न च विरुद्ध- 15 धर्मयोर्डित्यादिशब्दसङ्केते काचिदर्थसिद्धिः, यदृच्छाशब्दानां सकलकाल-देशव्यवहाराननुयायित्वात् । अपि च, सान्वयशब्दापेक्षया विरुद्धधर्मयोरवक्तव्यतोच्यते यथा सदंशाभिधायी सच्छब्दोऽस्ति तथा युगपत् सदसदंशाभिधायी नास्तीति । ततो यदि डित्थादिशब्दैः सङ्केतवशाद्विरुद्धधर्मावभिधीयेते तथापि न काचित् क्षतिः । यद्यवं प्ररूढादर्थादर्थान्तरे शब्दस्य प्रवृत्तौ प्रत्यासत्तिरपेक्ष्यते तदा शब्दानां 20 सर्वार्थवाचकत्वव्याघातः स्यात् । न स्यात्, सङ्कतस्यापि सहकारित्वात् । यथा हि धूमो जातवेदसः स्वतो गमकोऽपि नान्तरीयकज्ञानमपेक्षते, न खलु नालिकेरद्वीप.6A वासिनोऽनिश्चितकार्यभावस्य धूमदर्शनेऽपि वहिनिश्चयो भवति । तथा यद्यपि सर्वे शब्दाः स्वतः सर्वार्थेषु प्रतिबद्धास्तथापि सङ्केतोत्क्षिप्तं क्षयोपशममपेक्षन्ते । १ कदाचित् सामान्यवाची स्यादिति विशेषेत्युक्तम् ॥ २ न तु गौणशम्दाभिधेयत्यम् ॥ ३ अनेकार्थ- 25 स्वलक्षणम् ॥ ४ गवादिशब्दानाम् ॥ ५ मुख्यया वृत्त्या ॥ ६ सत्त्वासत्त्वयोः ॥ ७ येनैव संकेतितस्तं प्रत्येव व्यवहार: स्यात् , नान्यान् प्रति ॥ ८ अथ च त्वन्मते सर्व शब्दाः सर्वार्थवाचका इष्टाः ॥ ९ निश्चितो हि धूमो धूमध्वजं गमयति नानिश्चित इति । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318