Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 269
________________ २०४ स्थोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे स्यादेवम्-पटरूपाद्यसत्त्वं यथा घटे व्यवस्थितं तथा पटादन्यत्र सकलेष्वपि वस्तुपु, अन्यथा पटस्य विभुत्वप्रसङ्गः। घटरूपादिसत्त्व-पटरूपायसवयोश्च कथञ्चिदभेद इष्यते, तथा च पटरूपाद्यसत्त्ववद् घटरूपादिसत्वस्य सर्वत्रावस्थितिः स्यादिति । न। 'पैररूपासत्त्व-स्वरूपसत्त्वयोरभेदेऽपि न पररूपासत्त्ववत् स्वरूपसत्त्वस्य सर्वत्र यावति पररूपासवं तारति भावोऽवस्थानम् । सर्वत्र वस्तुराशौ सता विद्यमानेन स्वरूपासत्त्वेन 5 वाधनात् स्वरूपसत्त्वस्यावस्थाननिरोधात् । यद्यपि हि पटरूपासचाभेदाद् घटरूपसत्वं सर्वत्र प्रामोति तथापि स्वाभावेन बाधितत्वान्न भवति, म्वरूपस्वभावाभावयोः परस्परविरोधिनोरेकत्र प्रमाणेनानुपलम्भात् , पटरूपासत्त्ववद् घटरूपासत्वस्यापि सर्वत्र भावात् । स्यान्मतम्-यावता घटरूपसवं पटल्यासत्वादभिन्नं तावता सर्वत्र प्राप्तं 10 यावता च स्वाभावेन बाध्यते तावता न प्राप्तम् । एवं च सन्दिमहे-पटरूपा सचाभेदतो घटरूपसत्त्वं सर्वत्र वा भवेत् स्वाभाववाधितत्वान्मा वेति । तन्न । 1004 सर्वत्रावस्थानं हि घटरूपसत्वस्य पररूपाभावाभेदायातत्वाद् गौणम् । अनवस्थानं तु स्वाभावबाधितत्वाद् मुख्यम् । गौणमुख्ययोश्च मुख्यमेव बलीय इति सर्वत्रानवस्थानमेव भवति । अथवा यथा पटरूपासत्त्वामेदेऽपि घटरूपसत्त्वं पटे न भवति पटरूपा- 15 सत्वस्य तंत्राभावात् , पटरूपासत्वाकान्त एव देशे घटरूपसवभावस्य प्रसअनात् । एवं स्तम्भेऽपि न भवति, स्तम्भरूपासच्चस्य तंत्राभावात् , घटरूपसच्चस्तम्भरूपासत्त्वयोश्चाभेदात् , अमिन्नयोश्चैकयोगक्षेमत्वात् । एवमन्येलपि न भवति, सर्वपां स्वरूपाभाववत् स्वरूपाभावाभिन्नस्यापि परिहारात । यदिवा वस्तुस्वरूपासववद् यदि वस्तुस्वरूपसत्त्वमपि सर्वान्यभावाभिन्नं भवेत्तदा सदंशेनापि भावानामभेद: 20 100B स्यात् । स च प्रत्यक्षबाधितः। ततो यद्यपि पररूपासचाभेदात् स्वरूपसत्त्वस्य सर्वत्र भावः प्रसक्तस्तथापि सत्त्वात तेजोऽवयविनोऽनुष्णत्ववन्न भवति, प्रत्यक्षबाधितत्वात् । न केवलं सर्वत्र सता स्वरूपासत्त्वेन बाधनात् स्वरूपसत्त्वं सर्वत्र न भवति, पररूपासत्त्वस्य प्रतिव्यक्ति भिन्नत्वाच्च । न यदेव पटरूपासत्त्वं घटे व्यवस्थितं तदेव कुसुमरश्मिवि भावान्तरेष्वपि यतो घटरूपसचमभेदात् सर्वत्र भवेत् , किन्तु प्रति- 25 १ पटरूपाद्यसत्त्वेन सहाभेदादिति भावः ।। २ पररूपा-सत्त्वस्वरूपसत्त्वयोग्भेदेऽपि न पररूपासत्ववत् स्वरूपमत्त्वस्य सर्वत्र भावः ।। ३ अपेतनीणाव्या(?)एतस्य ॥ * अत्र मध्यममक्षरत्रयं न सम्यक् पठ्यते ॥ ४ सर्वत्र सता स्वरूपामधेन बाधनात् ॥ ५ पटे ॥ ६ घटरूपसत्त्वम् । कोऽभिप्रायः? यथा घटरूपसत्त्वं पटरूपासत्त्वेनाभिन्न तथा स्तम्भादिरूपासत्त्वेनापि इति सर्वत्र तदभावः ॥ ७ स्तम्भे ।। ८ कुम्भादिषु ।। ९ सूत्र ॥ 30 Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318