Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad
View full book text
________________
मदमट्टपत्यमाधनम ।
२०३ सदसदिति प्रत्ययौ परस्परविरुद्धावुपजनयति तदेव मनागस्मानन्तर्दुनोति। अविजातीयत्वे हेतुमाह-सर्वज्ञताभेदप्रसङ्गादिति । यदि ोकस्मिन्नपि विषये रूपभेदेन मर्वदर्शिनां विज्ञानानि भवेयुस्तदा सर्वज्ञताविजातीयत्वं स्यात् , सर्वभावानामन्यथा दर्शनात् ।
किन, ने चेति । न च अर्थनिबन्धना अर्थात्पाद्यास्तेषां सर्वज्ञानां बुद्धयः, 5 अतीतादिप भावात् । सर्वज्ञा ह्यतीतमनागतं चाथं परिच्छिन्दन्ति । न चातीतादयो988 ऽसन्तः परिच्छेदोत्पादका घटन्ते ।
अन्यथेति । यद्यतीत-भविष्यन्तोऽपि बुद्धीरुपजनयेयुस्तदा तेपामतीतादिरूपतैव न स्यात् । यो ह्यर्थक्रियामुपजनयति स कथं नामातीतादिर्भवनि । अयमर्थःछद्मस्थबुद्धयो विषयादुत्पन्नाः समानरूपा एकविपया अप्यनेका भवन्ति । सर्वज्ञबुद्धयः 10 पुनर्विपयोत्पाद्या एव न भवन्ति, किं तत्र विषयैकत्वानेकत्वकल्पनया ?
नन्विदं स्वरूपाद्यैः सत् पररूपायैश्वासदिति प्रत्ययौ कल्पनारूपत्वाद्धान्तौ । उच्यते
न च विकल्पधियो न प्रमाणम्, सम्यगनुभवत्वात् । तदस्खलितशब्दप्रत्ययभेदो भिन्नहेतुरेव ।
न चेति । सम्यगनुभवत्वात् प्रेमाणलक्षणोपपन्नत्वात् । इन्द्रियार्थान्वयव्यतिरेकानुविधायी यः प्रत्ययः स सम्यगनुभवः । यश्च सम्यगनुभवः स निर्विकल्पकवत् 99A प्रमाणम् । वस्तुनि च सदसदिति प्रत्ययाविन्द्रियार्थान्वयव्यतिरेकानुविधायितया
सम्यगनुभवौ, तथा च प्रमाणम् । प्रमाणरूपभेदेन च विषयस्यापि भेद एव । 'तदित्युपसंहरति । सर्वत्र भावित्वमेवाधितत्वं चास्वलितत्वम् । हेतुर्विषयः । 20 शब्दाच निर्विषया न भवन्तीति प्राक् प्रपश्चितमेव ।
पररूपासत्त्व-स्वरूपसत्त्वयोरभेदेऽपि न पररूपासत्त्ववत् स्वरूपसत्त्वस्य सर्वत्र भावः. सर्वत्र सता स्वरूपासत्त्वन वाधनात् , पररूपासत्त्वस्य प्रतिव्यक्ति भिन्नत्वाच्च । । न चार्थनिबन्धनास्तदबुद्धयः, अतीतादिषु भावात् ॥ २ अर्थाः ॥ ३ अन्यथा तपतष 52 न स्यात् ।। ४ अर्थाः ॥ ५ किन्तु वर्तमानरूपतैव ॥ ६ ज्ञानलक्षणाम् ॥ ७ विषयात क्षयोपशमस्ततो ज्ञानमिति पारम्पयेणार्थो ज्ञान प्रति कारणमस्ति इति विषयावृत्पन्ना इत्युक्तम् ।। ८ न च विकल्पधियो न प्रमाणम , सम्यगनुभवत्वात् ।। ९ तात्पर्येण पर्यायः ॥ १० विबादाध्यासितौ सदसदिति प्रत्ययौ सभ्यगनुभवाविति प्रतिज्ञा, इन्द्रियार्थान्वयव्यतिरेकानुविधायित्वात् ।। ११ तमस्खलितशब्दप्रत्ययभेदी मिनहेतुरेव ।। १२ देशे काले ।। १३ मरुमरीचिकायां जलज्ञानं भावि, परं बाधितम् ॥
30
15
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318