Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad
View full book text
________________
सदसद्रूपत्वसाधनम् ।
२०१ मंकीर्णरूपः कल्पनीयः। अन्यथा स एवाभावांशो न सिध्येत् । न च स्वभावेनामङ्कीर्णरूपतायामसत्यां पृथग्भूताभावांशसद्भावेऽपि सा युक्तिमती, स्वहेतुबलायातस्य सङ्कीर्णरूपस्याकिश्चित्कराभावांशसम्भवेऽपि त्यागायोगात् । न च तेनैव तद्विनाशनम् , विनाशहेतोरयोगात् । तेन सङ्कीर्णरूपविनाशने च वरं स्वहेतोरेव स्वभावतोऽ
मङ्कीर्णरूपाणामुदयोऽस्तु किं परिव्रामोदकन्यायोपगमेन ? तस्मात् स्वभाव एव भावानां 5 96A पररूपविकलत्वादभावांशो नान्यः" [हेतुबिन्दुटीका पृ०२५-२६] इति ।
अत्रोच्यते
सदसद्रूपाद्रेतोरेव सदसद्रूपोत्पत्तिः, नोत्पन्नस्यासत्त्वेन परतो भेदः ।
सदिति । म्वरूपादिसत्वपररूपायसवात्मकाद्धेतोरेव भावाः स्वरूपादिसत्त्वपर- 10 रूपाद्यसत्त्वात्मका भवन्ति । न पुनः पररूपादिसङ्करेणोत्पन्नानां पररूपाद्यसत्त्वेन पश्चात् पररूपादिभ्यो भेदः क्रियते । स्वहेतुभ्य एव भावाः पररूपाद्यसङ्कीर्णस्वभावा भवन्तीति वयमपि मन्यामहे । किन्तु पररूपाद्यसङ्कीर्णत्वं वस्तुनः स्वगतं रूपं स्वरूपादिसत्त्वात् स्याद्भिन्न परमार्थसदेवेति ब्रूमः, तदनभ्युपगमेऽसङ्कीर्णा एत इति
वक्तुमशक्यत्वात् । ततोऽसङ्कीर्णस्वभावोत्पत्तिरेवासवांशोत्पत्तिः, नान्या काचित् । 15 96B तस्मात् स्वरूपादिसत्त्वस्य वैशिष्टयान्यथानुपपन्या पररूपाद्यसचं वास्तवमेव्यमेव ।
एकनिमित्तत्वे शब्दप्रत्ययभेदोऽपि न स्यात् , निमित्तवेरूप्यजत्वान्निमित्तिवैरूप्यस्य । अन्यथा न प्रतिनियतोपादानपरिग्रहः । पोतमेव वा सकलनीलादिप्रत्ययहेतुः स्यात् ।
अपि च, यदि स्वरूपादिसत्त्वमेवैकमिष्यते तदैकनिमित्तत्वे सति शब्दभेदः 20
प्रथम संकीर्णरूपाणामुत्पादोऽभ्युपेयते, पश्चादसंकीर्णरमाणामुदयमुपगन्तुं का पुनरत्र हानिरिग्याशङ्कयाह"किमित्यादि । कश्चित् किल परिवाइ अशुचौ पतितं मोदक करेण गृहन् केनचित् सोत्प्रासं पृष्टः'किमशुचेर्मोदक गृह्णासि' इति । स एवं पृष्टस्तं प्रत्यवादीत्-'प्रक्षाल्यो(ल्या)व त्यक्षा(क्ष्या)मि' इति । सोऽयं परिव्राजको(क)मोदवे (क)पाहणार्थी न्यायः, तदुपगमेन किम् ? यथा च तत्र तन्मतम् 'अत्रैव त्यक्तव्य एवायम्' तदा किमशुचिम्रक्षितस्यान्नस्य ग्रहणन? बरमय पूर्वावस्थानेन एवास्तु इत्युपालम्भस्तथा- 52 त्रापि । यदि त्वभावत एवासङ्कीर्णरूपाणां पश्चादुत्पादोऽभ्युपेतव्यो वरं प्रथमत एव तथाभूतानामुदयोऽभ्युपगम्यतामित्यभिप्रायः। ततस्तथाविधो(ध)स्य प्रमाणप्रसिद्धी चायमुपालम्भाभिप्रायो द्रष्टव्यः। तस्मादित्यादिना प्रकृतोपसंहारः।" इति दुबैकमिणविरचिते हेतुबिन्दुटीकालोके पृ० २७८ ॥ ५ स्वरूपेण स्वोत्पत्या ॥
१ असङ्कीर्णरूपता || २ अभावस्य तुच्छरूपस्वादफिनिकरत्वम् ॥ ३ अभावांशेनंव ॥ ४ पृथग्भूताभावेन ॥ ५ सदसद्रूपाखेतोरेव सदमदपोत्पत्तिः, नात्पन्नस्यासत्वेन परतो भेदः ॥ ६ एकनिमित्तत्वे 30 शब्दप्रत्ययभेदोऽपि न स्यात ॥
AL
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318