Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 265
________________ २०० 95A स्थोपाटीकामहिते द्रव्यालङ्कारे तृतीये प्रकाशे न च स्वरूपादिसत्त्वमेव विशिष्टं पररूपाद्यसत्त्वम् , अपरासत्त्वाभावे वैशिष्टयस्यैवाभावात् । स्यादेवम्-यदेव स्वप्रतिनियतै रूपादिभिर्वस्तुनः सत्त्वं तदेव पररूपादिभिरसत्यम् । न खलु स्वरूपादिसत्वं पररूपाद्यसत्त्वं च द्वयमस्ति, किन्तु विशिष्टं स्वरूपादिसत्यमेवैकमस्ति । तत् कस्य केनाविरोधश्चिन्त्यत इति । तन्न। यस्मान्न च स्वरूपादिसत्त्वमेव विशिष्ट पररूपादिभिरसंसृष्टं पररूपाद्यसत्त्वमिति वक्तव्यम् , अपरेषां रूपादीनां यदसत्त्वं तस्याभावे स्वरूपादिसवस्य वैशिष्टयस्यैवाभावादघटनात् । यदि हि स्वरूपादिभिः सचं पररूपाद्यसंसृष्टत्वनिरपेक्षमेव पररूपाद्यसचमुच्यते तदा तथाभूते पररूपाद्यसत्त्वे सत्यपि पररूपादिभिः सत्त्वं प्रामोति, पररूपाद्यभावानवच्छिन्नेन रूपादिमात्रेण सच्चाभ्यनुज्ञानात् , पररूपादीनामपि रूपादि- 10 मात्रत्वानतिकमात् । अथ पररूपाद्यसंसृष्टं स्वरूपादिसत्त्वं पररूपाद्यसत्त्वमुच्यते । एवं तहि यत इदं स्वरूपादिसवं पररूपादिभिरसंसृष्टमुच्यते स स्वगतो रूपविशेषः स्व रूपादिसत्त्वस्यैष्टव्यः। स चास्माकं पररूपाद्यसत्त्वमुच्यते । स्वरूपादिसवमपि स्वकारणे958 वस्तुनः प्रतिनियतं तदा जनितं स्यात् यदि पररूपाद्यसत्त्वमपि जनितं स्यात् । ततः स्वरूपादिसच्चमेव प्रतिनियतमुन्यमानं पररूपायसवमपरं परमार्थसदाकर्षति। 15 अर्घटस्त्वाह-"व्यतिरिक्तमपि भावांशाः नावांशमिच्छता भावांशः स्वभावेनाऽ१ न च स्वरूपादिसत्यमेव विशिष्टं पररूपाचमत्त्वम् ॥ २ अपरासत्वाभावे वैशिष्टयस्यवाभावात् ।। ३ ऽनविशिषे तेन ? ॥ * अत्र 'अविशेषितेन' इति आशयः समीचीनः प्रतीयते, अतः 'अन्' इति ‘अविशेषे' वर्तते, तेन अविशेषितेन इति अन्धकृतोऽभिप्रायो भाति ।। ४ . अस्य अर्चटग्रन्थस्य पण्डितदुर्वैकमिप्रविरचिता ब्याख्या "ननु च तस्यासंकीर्णरूपता [न] स्वतः, किं त्वभावांशसभावात् । तत्कथमेवमभिधीयत इत्याशक्य कारणमाह-तथाहीत्यादि । अन्यथा तस्य परस्पमिश्रताप्रकारेण | स एवाभावांशः पराभावो न सिद्धयेत परारमवदिति भावः । अत्रैवाभ्युच्चयहेतुमाह न चेति । सा संकीर्णरूपता, कथं न युक्तिमतीत्याह-स्वहेतुबलेति स्वहेतुबलायातस्य तद्धेतुभावेन विशेषणम् । योगपरिवर्जन तस्यायोगात् । तेन वस्तु नेति सामर्थ्यात् । ननु तेन तस्य संकीर्णरूपस्य विनाश[ने] पराभावेन सर्वेषामेव भावानामुदयक्षणादूर्ध्वमभावादभावैक- 25 रसं जगत् स्यादिति प्रसजयितु युक्तं, न भू (तु) तेन संकीर्णरूपविनाशेन(शने) वरं स्वहेतोरेवासंकीर्णरूपाणामुदयोऽस्त्विति । सत्यम् । यथाश्रुतिः(ते) स्यादेव दोषः । केवलमस्य तात्पर्यार्थबोधे यरनः करणीयः । इह खलु भावानां क्षणभङ्गित्वेऽपि सदृशापरापरक्षणोदयावस्तुसन्तानविषया प्रतीतिरस्ति, न त्वभावविषयव । अत एव तत्ववार्मतथ(?)यामुपालवतोत्पद्यते। उदयोत्तरकालमव्यवधानेन वस्तुविषया च प्रतीतिः कथमुपपद्येत यदि स एवाभावः पूर्वसिद्ध संकीर्णरूपं विनाश्यान्यदसंकीर्णरूपमुत्पादयेत् । सति चवं 'वर वस्हेतोरेव तथाविधानामुदयो- 30 ऽस्तु'इत्युच्यत इति । हेतुरवेनार्थक्रियाकारित्वेन वस्तुरूपत्वादभावरूपतव हीयेतेत्येतदुपेक्ष्यैव चैतदुक्तं द्रष्टव्यम् 20 Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318