Book Title: Dravyalankara
Author(s): Ramchandra, Gunchandra, Jambuvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 263
________________ १९८ स्वोपाटीकामहिते द्रव्यालङ्कारे तृतीये प्रकाशे सम्भाव्यते । किन्त्वमी सर्वदा संललितत्वेनाभिन्नाश्रया एव, ततः कुतो विरोधसम्भावना स्यात् । स्यान्मतम् - अन्योन्यव्यवच्छेदरूपाणामेकव्यवच्छेदेनान्यविधानात् कथमेकत्र सम्भवः । अनित्यत्वव्यवच्छेदेन हि नित्यत्वं विधीयते, तद्वयवच्छेदेन चानित्यत्वम् , परस्पराभावरूपत्वात् । ततो यत्र यत्प्रकारव्यवच्छेदेन यदितरप्रकारावैच्छेदो न तत्र 5 तदानीमेव व्यवच्छिद्यमानप्रकारसम्भवः, यथाऽऽतपव्यवच्छेदेनावच्छिद्यमानायां क्वचिद्देशे 92A छायायाम् , अन्योन्यव्यवच्छेदेन चावच्छिद्यते वस्तुनि नित्यत्वमनित्यत्वं वेति नैक त्रैकदोभयसम्भव इति । अत्राह___अत एव नैकव्यवच्छेदेनापरपरिच्छेदः। यत् पुनरुभयांशापणया एकशब्देन वस्तुस्वरूपानभिधानं तत्रापराध्यति क्षयोपशमः। 10 तन्नोत्पाद-व्यय-ध्रौव्याणां युगपद्भावेऽपि विरोधः । अत एवेति । यत एव परस्परानुवेधेन न पृथगाश्रयोपलब्धान्युत्पादव्ययध्रौव्याणि तत एव नकव्यवच्छेदेनापरपरिच्छेदः । प्रत्यक्षं हि वस्तुनि प्रवर्त्तमानं नान्योन्यव्यवच्छेदेन नित्यतामनित्यतां वा परिच्छिनत्ति, किन्तुभयमप्यव्यवच्छेदेन, स्यानित्यतया वस्तुनः परिच्छेदात । यत्रापि क्वचित् कस्यचित् कुशास्त्राहितापसंस्कारस्य केवल नित्यता- 15 ऽनित्यतावसायि प्रत्यक्षमुदयते तत्रापि द्वितीय साक्षेपेणाप्रतिषेधेन वेति न कस्यचिदपि 920 प्रत्यक्षं वस्तुन एकान्तेन क्षणिकत्वमक्षणिकत्वं वा परिच्छिनत्ति, किन्तु युगपदुभयमेककं वाऽन्याक्षेपाप्रतिषेधाभ्याम् । ततोऽन्यव्यवच्छेदेन नित्यानित्यतयोः परिच्छेदोऽसिद्धः । अत एव परस्पराभावरूपत्वमप्यसिद्धमेव, परस्पराव्यवच्छेदेन परिच्छेदात् । स्यादेवम्-यो परस्परपरिहारवन्तौ न तावेकाश्रयौ यथा भावाभावौ, परस्पर- 20 परिहारवत्यौ च नित्यतानित्यते । तदयुक्तम् । परस्परपरिहारस्यैवानयोरसिद्धत्वात् । न खलु क्वचिदपि केवला नित्यताऽनित्यता वा सिद्धास्ति, कथश्चित्तादात्म्येनाश्रयपार्थक्यायोगात् । ननु नित्यत्वमनित्यवं वा परमार्थसदेव । यच्च परमार्थसत् तस्य क्वचिद्वस्तुन्यभावो यथा नीलस्य पीते। तदनयोरपि क्वचिद्वस्तुन्यभावेन भाव्यमिति । 93A तदपि न। नियताकारस्यैव परमार्थसतोऽन्यत्राभावात् । नित्यतानित्यते चानियता- 25 कारे, सर्वत्र सर्वदा भावात् । अयमर्थः-तद्वस्त्वेव न भवति यत्र युगपन्नित्यता-sनित्यते न स्तः, उभयाङ्कितत्वात् सर्वस्य वस्तुविचारस्य । ततः क्व वस्तुनि नित्यता१ निराकरणेन || २ ज्ञानम् ॥ ३ अत एव नैकव्यवच्छेदेनापर परिच्छेदः ॥ ४ कृत्वा ॥ ५ सत्तासत्ते ॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318