________________
१९८
स्वोपाटीकामहिते द्रव्यालङ्कारे तृतीये प्रकाशे सम्भाव्यते । किन्त्वमी सर्वदा संललितत्वेनाभिन्नाश्रया एव, ततः कुतो विरोधसम्भावना स्यात् ।
स्यान्मतम् - अन्योन्यव्यवच्छेदरूपाणामेकव्यवच्छेदेनान्यविधानात् कथमेकत्र सम्भवः । अनित्यत्वव्यवच्छेदेन हि नित्यत्वं विधीयते, तद्वयवच्छेदेन चानित्यत्वम् , परस्पराभावरूपत्वात् । ततो यत्र यत्प्रकारव्यवच्छेदेन यदितरप्रकारावैच्छेदो न तत्र 5
तदानीमेव व्यवच्छिद्यमानप्रकारसम्भवः, यथाऽऽतपव्यवच्छेदेनावच्छिद्यमानायां क्वचिद्देशे 92A छायायाम् , अन्योन्यव्यवच्छेदेन चावच्छिद्यते वस्तुनि नित्यत्वमनित्यत्वं वेति नैक
त्रैकदोभयसम्भव इति । अत्राह___अत एव नैकव्यवच्छेदेनापरपरिच्छेदः। यत् पुनरुभयांशापणया एकशब्देन वस्तुस्वरूपानभिधानं तत्रापराध्यति क्षयोपशमः। 10 तन्नोत्पाद-व्यय-ध्रौव्याणां युगपद्भावेऽपि विरोधः ।
अत एवेति । यत एव परस्परानुवेधेन न पृथगाश्रयोपलब्धान्युत्पादव्ययध्रौव्याणि तत एव नकव्यवच्छेदेनापरपरिच्छेदः । प्रत्यक्षं हि वस्तुनि प्रवर्त्तमानं नान्योन्यव्यवच्छेदेन नित्यतामनित्यतां वा परिच्छिनत्ति, किन्तुभयमप्यव्यवच्छेदेन, स्यानित्यतया वस्तुनः परिच्छेदात । यत्रापि क्वचित् कस्यचित् कुशास्त्राहितापसंस्कारस्य केवल नित्यता- 15
ऽनित्यतावसायि प्रत्यक्षमुदयते तत्रापि द्वितीय साक्षेपेणाप्रतिषेधेन वेति न कस्यचिदपि 920 प्रत्यक्षं वस्तुन एकान्तेन क्षणिकत्वमक्षणिकत्वं वा परिच्छिनत्ति, किन्तु युगपदुभयमेककं
वाऽन्याक्षेपाप्रतिषेधाभ्याम् । ततोऽन्यव्यवच्छेदेन नित्यानित्यतयोः परिच्छेदोऽसिद्धः । अत एव परस्पराभावरूपत्वमप्यसिद्धमेव, परस्पराव्यवच्छेदेन परिच्छेदात् ।
स्यादेवम्-यो परस्परपरिहारवन्तौ न तावेकाश्रयौ यथा भावाभावौ, परस्पर- 20 परिहारवत्यौ च नित्यतानित्यते । तदयुक्तम् । परस्परपरिहारस्यैवानयोरसिद्धत्वात् । न खलु क्वचिदपि केवला नित्यताऽनित्यता वा सिद्धास्ति, कथश्चित्तादात्म्येनाश्रयपार्थक्यायोगात् । ननु नित्यत्वमनित्यवं वा परमार्थसदेव । यच्च परमार्थसत् तस्य
क्वचिद्वस्तुन्यभावो यथा नीलस्य पीते। तदनयोरपि क्वचिद्वस्तुन्यभावेन भाव्यमिति । 93A तदपि न। नियताकारस्यैव परमार्थसतोऽन्यत्राभावात् । नित्यतानित्यते चानियता- 25
कारे, सर्वत्र सर्वदा भावात् । अयमर्थः-तद्वस्त्वेव न भवति यत्र युगपन्नित्यता-sनित्यते न स्तः, उभयाङ्कितत्वात् सर्वस्य वस्तुविचारस्य । ततः क्व वस्तुनि नित्यता१ निराकरणेन || २ ज्ञानम् ॥ ३ अत एव नैकव्यवच्छेदेनापर परिच्छेदः ॥ ४ कृत्वा ॥ ५ सत्तासत्ते ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org