SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ उत्पाद व्यय-ध्रौव्यसाधनम् । "दृष्टत्वाम विरोधोऽपि कथ्यते युक्तिशालिभिः । विरोधोऽनुपलम्भो हि यतो जैनमते मतः ॥" [ ] इति । अतश्चैकत्रककालमुत्पादव्ययधौव्याण्यपि प्रमाणेन तथैवोपलभ्यमानान्यविरोधीनि, विरोधलक्षणस्य प्रमाणानुपलम्भस्य तेष्वभावात् । अपि चैकनिमित्तानां स्यादपि विरोधसम्भावना, उत्पादादयश्च मिननिमित्ताः। पूर्वपर्यायस्य हि व्ययः। उत्तर- 5 पर्यायस्योदयः। द्रव्यस्यानुयायिनो ध्रौव्यम् । ततः कुतोऽत्र विरोधसम्भावना । अविकलकारणस्य भवतोऽन्यभावेऽभावगतिः प्रमाणेन सहावस्थानानुपपत्तरन्या का ? शीतोष्णयोरपि प्रमाणानुपपत्तिलक्षणं विरोधं घटयति-विकलेति। अविकलानि 51 समग्राणि कारणानि यस्य शीतादेः स तथोक्तः, भवतः परिणामान्तरेणोत्पद्यमान- 10 स्याऽन्यभावेऽन्यस्योष्णादेः सबिधाने सति अभावगतिः शीतादेः सजातीयपर्यायपरिणामापरिच्छित्तिः प्रमाणेन सहावस्थानानुपपत्तेरन्या का ! न काऽपीत्यर्थः । अयमेव हि शीतस्योष्णेन सह विरोधो यदस्योष्णसन्निधाने सजातीयपर्यायैः परिणतिः प्रत्यक्षतो नोपलभ्यत इति । तस्मात् प्रमाणानुपपत्तिरेव सर्वत्र विरोधलक्षणम् । तचोत्पादादिषु नास्ति, प्रत्यक्षत एवैषामेकत्रैवोपलम्भात् ।। उत्पादादीनामविरोधाय युक्त्यन्तरमप्युपन्यस्यति स्यादपि सदैव पृथगाश्रयोपलब्धानामेकाश्रययोजनायां विरोधसम्भावना । न चोत्पाद-व्यय-ध्रौव्याणि सदा परस्परानुवेधेन पृथगाश्रयोपलब्धानि। स्यादपीति। ये हि सदैव सर्वैरपि पृथगाश्रया एवोपलभ्यन्ते ते यदा केना- 20 प्येकाश्रयाः क्रियन्ते तदा भवेदपि विरोधसम्भ(म्भा)वना यथा शीतोष्ण छायातपादीनाम् । 918 ने चोत्पादव्ययध्रौव्याणि सदा सर्वकालं परस्परानुवेधेनाऽन्योन्यानुप्रवेशेन, परस्परं कथञ्चित्ता दात्म्येनेत्यर्थः, पृथगाश्रयोपलब्धानि, न खलु तदस्ति किञ्चिदपि वस्तु यत्र केवल उत्पादो व्ययो धौव्यं वा व्यवस्थितं येनामीपामेकाश्रयीक्रियमाणानां विरोधः १ एकत्रव विरुद्धयोधमयोदृष्टत्वात् || २ द्रव्ययोरपि ।। ३ अविकलकारणस्य भवतोऽन्यभावेऽभाव- 25 गति: प्रमाणेन सहावस्थानानुपपत्तेरन्या का? ॥ ४ अज्ञानम् ॥ ५ स्यादपि सदैव पृथगाप्रयोपलब्घानामेकाश्रययोजनायां विरोधसम्भावना ।। ६ न चोत्पाद-व्यय-ध्रौव्याणि सदा परस्परानुवेधेन पृथगायोपलब्धानि ॥ ७ कृत्वा । सर्वकालं परस्परानुवेधाद्धेतोः ।। 15 Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002580
Book TitleDravyalankara
Original Sutra AuthorN/A
AuthorRamchandra, Gunchandra, Jambuvijay
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages318
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy