________________
१९६
स्वोपाटीकासहिते द्रव्यालङ्कारे तृतीये प्रकाशे नापि तृतीयः सम्भवी, कृतकत्वानित्यत्वादेरपि परस्पराभाववत्वेन विरोधित्व89A प्रसङ्गात् । प्रकारान्तरं चाऽसम्भवादेव प्रत्याख्यायत ।
____नवस्त्यनुपलम्भो नाम तुरीयः प्रकारः। न हि कथश्चिभित्यत्वाद्युपलभ्यत इति । न । असिद्धत्वात् , पूर्वपर्ययविनाशिनो द्रव्यत्वेनानुयायिनी घटादेः प्रत्यक्षत एवोपलम्भात् । एवं भेदाभेदा-मिलाप्यत्वानमिलाप्यत्व-सामान्यविशेषात्मकत्वादीनामपि 5 विरोधपरिहारो विमर्शनीयः । ____ सदसद्रूपतयोः पुनर्विरोधशर्केच नास्ति । घटरूपसत्त्वं हि स्वाभावेनैव विरुध्यते, न पुनः
पटरूपसत्त्वाभावेन । ततो यदि घटः स्वरूपेण संस्तदानीमपि पररूपेणासंश्च भवेत् कि 89B नाम विरुध्येत? आत्मन एव भावाभावयाविरोधात् , भावाभावमात्रयोः पुनर्विरोधे सर्व
सर्वात्मकं स्यात् । तच्च प्रत्यक्षेणैव वाध्यते। तस्मात् स्थितमेतत्-ये परस्पराभावरूपाः 10 परस्पराभावापादका वा तेषां विरोधो यथा स्वरूपसत्त्वभावाभावयोः शीतोष्णयोर्वा, न चैव कथश्चिन्नित्यत्वानित्यत्वादय इति विरोधासम्भवः । तथा चास्माभिरेवान्यत्रोक्तम्
"निजाभिधेयप्रतिघातशङ्कया कथञ्चिदादीनि पैदान्यपि स्वतः । निवेशयन्त्यर्थगणे विरोधिनः प्रसह्य सत्त्वप्रभृतीन् गतक्रमम् ॥१॥ कथञ्चिदर्था हि संदाद्यपूर्णता विहन्यते सा प्रतियोग्यनाश्रितो । विधिनिषेधेन सेहस्थितौ स्थितस्ततो विरोधः परिपूर्णता यदि ॥२॥"
] इति । तदयं प्रमाणार्थः-ययोरविरोधस्तयोर्युगपदेकत्राप्यवस्थानं यथा रूपरसगन्धस्पर्शानामुपादानसहकारितयोर्वा । अविरोधश्च स्यात्कारलाञ्छनयोनित्यत्वानित्यत्वयो90A भैदाभेदयोरभिलाप्यत्वानभिलाप्यत्वयोः सामान्यविशेषात्मकत्वयोः सत्त्वासत्त्वयोवेति। 20 ततो विरोधासम्भवादुत्पादव्ययध्रौव्याणां युगपदेकत्रावस्थानं न विरुध्यते ।
तथैवेति न केवलं विरोधासम्भवादेकत्रककालं उत्पादव्ययध्रौव्याणि न विरुध्यन्ते तथा तथैव प्रमाणस्य प्रत्यक्षादेरुत्पादाच्च । हियस्मात् प्रमाणेन प्रत्यक्षादिनाऽनुपपत्तिरनुपलम्भो यस्तद् विरोधस्य लक्ष्म लक्षणम् , न हि विरोधो नाम पारमार्थिकः
कस्यचित् केनापि सहास्ति । किन्तु यो यथा येन सह प्रत्यक्षादिना नोपलभ्यते 25 90B स तथा तेन सह विरुद्ध इति लोके व्यवहियते । यदाह
१ सदृशपरिणामः ।। २ विसदृशपरिणामः ॥ ३ स्वरूपस्य ॥ ४ परस्परं पदार्थानां विलक्षणोपलक्षणात् ।। ५ 'कथञ्चित्'पदस्य इदमेवामिषेयं यद् युगपद् द्वावाँ ब्रूत इति ॥ ६ कर्तणि ।। ७ युगपत् || ८ '६' [विग्रहे षष्ठयन्तम् ] ।। ९ सहभावे ॥ १० नैयायिक प्रति ॥ ११ तथैव प्रमाणभावाच ॥ १२ प्रमाणानुपपत्तिर्हि विरोधलक्ष्म ॥
15
30
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org